________________
स्थानं-४, - उद्देशकः-१
२११
चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति,
ननु ‘पढमिल्लयाण उदए नियमेत्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अतएव सप्तविधंदर्शनमोहनीयमेकसितिविधंचारित्रमोहनीयमिति मतंसङ्गतमाभातीति, अत्रोच्यते, 'पढमेल्लुयाणे'त्यादियदुक्तंतदनन्तानुबन्धिनांन सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेनप्रयोजनं?,आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा केवलियनाणलंभो नन्नत्थ खए कसायाणं'त्ति इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेवतस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एवसम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद्, यतो नानन्तानुबन्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति, यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तर तत्सम्यकत्वसहचरितत्वेनोपशमादिगुणानां सम्यक्त्वोचारादिति मन्यामह इति,
न विद्यते प्रत्याख्यानम्-अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो-देशविरत्यावारकः, प्रत्याख्यानम् आमर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः सञ्जवलयतिदीपयति सर्वसावधविरतिमपीन्द्रियार्थसम्पाते वा सजवलति-दीप्यत इति सजवलनःयथाख्यातचारित्रावारकः, एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदेचतुष्टयमध्येतव्यमिति, एष निरुक्तिः पूज्यैरियमुक्ता॥१॥ "अनन्तान्यनुबघ्नन्ति, यतो जन्मानि भूतये।
अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता ।। ॥२॥ नाल्पमप्युत्सहेद्येषां, प्रत्याख्यानमिहोदयात् ।
अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ।। ॥३॥
सर्वसावधविरतिः, प्रत्याख्यानमुदाहृतम्। तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ शब्दादीन् विषयान्प्राप्य, सञ्जवलन्ति यतो मुहुः । अतः सञ्जवलनाह्वानं, चतुर्थानामिहोच्यते॥' इति,
- एवं मानादिभिरपिदण्डकत्रयम्।'आभोगनिव्वत्तिए'त्तिआभोगो-ज्ञानंतेन निर्वर्तितोयजानन् कोपविपाकादिरुष्यति, इतरस्तु यदजानन्निति, उपशान्तः-अनुदयावस्थः, तप्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिवर्तितः संज्ञिपूर्वभवापेक्षया,अनाभोगनिवर्त्तितस्तुतद्भवापेक्षयाऽपि, उपशान्तोनारकादीनां विशिष्टोदयाभावात् अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् ।
इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते
मू. (२६४) जीवाणं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं० -कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं २४, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं, तिन्निदंडगा, एवं उवचिणिंसु उवचिणंति उवचिणिस्संति, बंधिंसु३, उदीरिंसु
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org