________________
२०७
॥१॥
स्थानं -४, - उद्देशकः -१ तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तनेति, अनुप्रेक्षणमनुप्रेक्षासूत्रार्थानुस्मरणमिति । अथानुत्प्रेक्षा उच्यन्ते-अन्विति-ध्यानस्य पश्चात्प्रेक्षणानिपर्यालोचनान्यनुप्रेक्षाः, तत्र॥१॥ एकोऽहं न च मे कश्चित्राहमन्यस्य कस्यचित् ।
नतं पश्यामि यस्याहं, नासौ भावीति यो मम ॥" इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा -
"कायः सन्निहितापायः, सम्पदः पदमापदाम् ।
समागमाः सापगमाः, सर्वमुत्पादि भङ्गुरम् ।"
- इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा॥१॥
“जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते। जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥"
एवमशरणस्य-अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा - ॥१॥ “माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे।
व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताश्चैव ॥" इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसारानुप्रेक्षेति।
अवशुक्लमाह- पुहुत्तवितकेत्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रितिवचनात्, सह विचारेणसविचारि,सर्वधनादित्वादिन्समासान्तः, उक्तंच॥१॥ "उप्पायठितिभंगाई पज्जयाणंजमेगदव्वंमि।
नाणानयानुसरणं पुव्वगयसुयानुसारेणं॥ ॥२॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुकं ।
होति पुहुत्तवियकं सवियारमरागभावस्स ॥" इत्येको भेदः, तथा 'एगत्तवियके'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयोव्यानरूपोऽर्थरूपो वा यस्य तदेकत्वदितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो नितिगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तंच॥१॥ “जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं ।
उप्पायठिइभंगाइयाणमेगंमि पजाए। ॥२॥ अवियारमत्यवंजणजोगंतरओ तयं बिइयसुक्छ ।
पुवगयसुयालंबणमेगत्तवियक्कमवियारं॥" इति द्वितीयः, तथा सहुमकिरिए'त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org