________________
२०६
स्थानाङ्ग सूत्रम् ४/१/२६१ ॥७॥ "तह तिव्वकोहलोहाउलस्स भूतोवघायणमणजं ।
परदव्वहरणचित्तं परलोगावायनिरवेक्खं ॥" इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह ॥१॥ “सद्दाइविसयसाहणधनसंरक्खणपरायणमनिहूँ।
। सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं ॥" इति,
अथैतल्लक्षणान्युच्यन्ते- 'ओसन्नदोसे'त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः अथवा 'ओसन्नं ति बाहुल्ये नानुपरत्वेन दोषो हिंसादीनां चतुर्णामन्यतर
ओसन्नदोषः, तथा बहुष्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहु-बहुविधो हिंसानृतादिरितिबहुदोषः, तथाअज्ञानात्-कुशासंस्कारात् हिंसादिष्वधर्मस्वरूपेषुनरकादिकारणेषु धर्मबुध्ध्याऽम्युदयार्थं या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृप्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असातानुतपस्य कालसौकरिकादेरिवया हिंसादिषुप्रवृत्तिःसैवदोष आमरणान्तदोषः।
अथधय॑चतुर्विधमितिस्वरूपेणचतुर्युपदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तचतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् 'चउप्पडोयार'मिति पाठस्तत्र चतुर्षु पदेषु प्रत्यवतारो यस्येति विग्रह इति, 'आणाविजए'त्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निर्णीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञायाविजीयतेअधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयं, एवं शेषाण्यपि, नवरं अपाया-रागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः-फलं कर्मणां ज्ञानाधावारकत्वादि संस्थानानि लोकद्वीपसमुद्रजीवादीनामिति, आह च॥१॥ "आप्तवचनं प्रवचनमाज्ञा विषयस्तदर्थनिर्णयनम् ।
आश्रवविकथागौरवपरीषहारिपायस्तु । ॥२॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् ।
द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्वि ॥"ति, एतल्लक्षणान्याह - 'आणारुइ'त्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिःश्रद्धानं आज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः-स्वभावोऽनुपदेशस्तेन, तथा सूत्रम्-आगमः तत्रतस्माद्वा, तथाअवगाहनमवगाढम्-द्वादशाङ्गावगाहो विस्तराधिगमइतिसम्भाव्यतेतेन रुचिः अथवा ओगाढत्ति साधुप्रत्यासनीभूतस्तस्य साधूपदेशाद्रुचिः, उक्तंच॥१॥ “आगमउवएसेणं निसग्गओ जंजिणप्पणीयाणं ।
भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग ॥" इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं, धर्मस्यालम्बनान्युच्यन्तेधर्मध्यानसौधारोहणार्थमालम्ब्यन्तइत्यालम्बनानिवाचनंवाचना-विनेयायनिर्जरायै सूत्रदानादि, तथाशङ्किते सूत्रादौ शङ्कापनोदाय गुरोःप्रच्छनप्रतिप्रच्छना, प्रतिशब्दस्यधात्वर्थमात्रार्थत्वादिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org