________________
२००
स्थानाङ्ग सूत्रम् ४/१/२५२ वृ.चत्तारिभासे'त्यादि, जातम्-उत्पत्तिधर्मकंतच्च व्यक्तिवस्तु, अतो भाषायाजातानिव्यक्तिवस्तूनिभेदाः-प्रकाराः भाषाजातानि, तत्र सन्तोमुनयोगुणाः पदार्थावातेभ्योहितंसत्यमेकंप्रथमंसूत्रक्रमापेक्षया भाष्यतेसा तयावा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीयं सूत्रक्रमादेव 'मोसं'ति प्राकृतत्वान्मृषा-अनृतंनास्त्यात्मेत्यादिवत्, तृतीयंसत्यमृषा-तदुभयस्वभावंआत्माऽस्त्यकर्तेत्यादिवत्, चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे॥१॥ “सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा।
तविवरीया मोसा मीसा जा तदुभयसहावा ॥२॥ अनहिगया जा तीसुवि सदो चिय केवलो असच्चमुसा।
___ एया सभेयलक्खण सोदाहरणा जहा सुत्ते" इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री
मू. (२५३) चत्तारि वत्था, पं० तं०-सुद्धे नाम एगे सुद्धे १ सुद्धे नामं एगे असुद्धे २ असुद्धे नाम एगे सुद्धे ३ असुद्धे नामंएगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० तं०-सुद्धे नाम एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० तं०सुद्धे नामंएगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव परक्कमे।।
वृ. 'चत्तारि वत्थे' त्यादि, स्पष्ट, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, अथवापूर्वं शुद्धमासीदिदानीमपिशुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दार्शन्तिकयोजना 'एवमेवे'त्यादि, शुद्धो जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगो'त्ति चत्वारो भङ्गाः समाहताः चतुर्भङ्गी चतुर्भङ्गंवा, पुंल्लिङ्गता चात्र प्राकृतत्वात्, तदयमर्थो-वस्त्रवच्चत्वारो भङ्गाःपुरुषेऽपि वाच्या इति । एव'मिति यथा शुद्धात् शुद्धपदे परेचतुर्भङ्ग सदार्शन्तिकंवस्त्रमुक्तमेवंशुद्धपदप्राक्पदे परिणतपदे रूपपदेचचतुर्भङ्गानि वस्त्राणि 'सपडिवक्ख'त्तिसप्रतिपक्षाणिसदान्तिकानिवाच्यानीति, तथाहि-चत्तारिवत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धपरिणए चतुर्भङ्गी, “एवमेवे'त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या तु पूर्ववत्।
__ 'चत्तारी'त्यादि, शुद्धोबहिः शुद्धमनाअन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञःशुद्धष्टिःशुद्धशीलाचारः शुद्धव्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाए-एव'-मित्यादि । पुरुषभेदाधिकार एवेदमाह
मू. (२५४) चत्तारि सुता पं० २०-अतिजाते अणुजाते अवजाते कलिंगाले।
वृ.सुताः-पुत्राः अइजाए त्तिपितुः सम्पदमतिलमयजातः-संवृत्तोऽतिक्रम्य वातां यातःप्राप्तो विशिष्टतरसम्पदंसमृद्धतर इत्यर्थः इत्यतिजातोऽतियातोवा, ऋषभवत्, तथा अनुजाए'त्ति अनुरूपः, सम्पदा पितुस्तुल्योजातोऽनुजातःअनुगतोवापितृविभूत्याऽनुयातः,पितृसमइत्यर्थः, महायशोवत्, आदित्ययशसा पित्रातुल्यत्वात्तस्य, तथा अवजाए'त्तिअपइत्यपसदोहीनःपितुः सम्पदोजातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात्, तथा 'कुलिङ्गाले'त्ति कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति
Jain Education International
onal
For Private & Personal Use Only
www.jainelibrary.org