________________
स्थानं - ४, - उद्देशक:-9
कण्डरीकवत्,
एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवत्, अनुजातः शय्यंभवापेक्षया यशोभद्रवत्, उपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुहायिनृपमारकवद्वेति । तथा 'चत्तारि त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सद्द्भ्यो हितत्वाद्, अथवा पूर्वं सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारमसूत्राण्यतिदिशन्नाह- ' एवं 'मित्यादि, व्यक्तं, नवरमेवं सूत्राणि -
२०१
मू. (२५५) चत्तारि पुरिसजाता पं० तं०-सच्चे नामं एगे सच्चे, सच्चे नामं एगे असच्चे ४, एवं परिणते जाव परक्कमे,
चत्तारि वत्था पं० तं०-सुतीनामं एगे सुती, सुईनामं एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता, पं० तं० - सुतीनामं एगे सुती, चउभंगो, एवं जहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणावि, जाव परक्कमे ।
वृ. 'चत्तारि पुरिसजाया पं० तं०-सच्चे नामं एगे सच्चपरिणए ४, एवं सच्च रूवे ४ सच्चमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिट्ठी ४ सच्चसीलायारे ४ सच्चववहारे ४ सच्चपरक्कमेत्ति ४, पुरुषाधिकार एवेदमपरमाह
'चत्तारि वत्थे'त्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपेतम्, 'सुइमणे' इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह‘एव’मित्यादि कण्ठ्य । पुरषाधिकार एवेदमपरमाह
मू. (२५६) चत्तारि कोरवा पं० तं० - अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं०-अंबपलंबकोरवसमाणे तालपलंबकोरवसमाणे वल्लिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे ।
वृ. 'चत्तारि कोरवे ' इत्यादि, तत्र आम्रः चूतः तस्य प्रलम्बः फलं तस्य कोरकं तन्निष्पादकं मुकुलं आम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली - कालिङ्गयादिका, मेंढविषाणा - मेषशृङ्गसमानफला वनस्पतिजातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, 'एवे 'त्यादि सुगमं, नवरमुपनय एवं यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति ।। पुरुषाधिकार एव घुणसूत्र
मू. (२५७) चत्तारि घुणा पं० तं०-तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि मिक्खागा पं० तं० तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पन्नत्ते, सारक्खायसमाणस्स णं भिक्खागस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org