________________
स्थानं-४, - उद्देशकः-१
१९९ प्रकृत्या औदार्यादियुक्तमनाः, एवममन्येऽपित्रयः, 'एव'मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारिलाघवार्थं, सङ्कल्पो-विकल्पोमनोविशेषएव विमर्शइत्यर्थः, उन्नतत्वंचास्यौदार्यादियुक्ततया सदर्थविषयतयावा ८,प्रकृष्टं ज्ञानप्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया ९, तथा दर्शनं सृष्टिः-चक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यसंवादितयैवेति १०,
क्रियापरिणामापेक्षमतःसूत्रत्रयम्, तत्रशीलाचारः,शीलंसमाधिस्तप्रधानस्तस्यवाऽ5चारः-अनुष्ठानंशीलेनवा-स्वभावेनाचारइति, उन्नतत्वंचास्यादूषणतया, वाचनान्तरेतुशीलसूत्रमाचारसूत्रंच भेदेनाधीयतइति ११, व्यवहारः-अन्योऽन्यदानग्रहणादिर्विवादोवा, उन्नतत्वमस्य श्लाध्यत्वेनेति १३, पराक्रमः-पुरुषकारविशेषः परेषांवा-शत्रूणामाक्रमणं,तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति १२, उन्नतविपर्यवः सर्वत्र प्रणतत्वं भावनीयमिति,
___ 'एगे पुरी'त्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भङ्गिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः,प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रंनास्ति, नाध्येतव्यमितियावत्, इहमनःप्रभृतीनांदार्शन्तिकपुरुषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति । 'उज्जु'त्तिऋजुः-अवक्रो नामेतिपूर्ववदेकः कश्चिदृक्षः तथाऋजुःअविपरीतस्वभावऔचित्येनफलादिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति-वक्रः, फलादौ विपरीतः, तृतीये प्रथमपदं वक्र:-कुटिलः चतुर्थः सुज्ञानः, अथवा पूर्वं ऋजुरवक्रः, पश्चादपि ऋजुः-अवक्रोऽथवा मूले ऋजुरन्ते च ऋजुरित्येवं चतुर्भङ्गी कार्येत्येष दृष्टान्तः १, पुरुषस्तु ऋजुः-अवक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्तर्नियित्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव 'वङ्क' इति तु वक्रः अन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुः-साधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽन्तर्निर्माय इति प्रवचनगुप्तिरक्षा- प्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठदिति, कालभेदेन वा व्याख्येयम् २ अथ ऋजु ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह
___ “एव'मित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण 'यथेति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नतप्रणताभ्यां परस्परंप्रतिपक्षभूताभ्यांगमःसध्शपाठः कृतः, 'तथा' तेन प्रकारेण परिणतरूपादिविसेषिताभ्यामित्यर्थः, तत्र च ऋजु २ ऋजुपरिणत् २ ऋजुरूप २ लक्षणानिषट्सूत्राणि वृक्षष्टान्तपुरुषदार्शन्तिकस्वरूपाणि, शेषाणि तुमनःप्रभृतीनि सप्त अदृष्टान्तानीति १३ । पुरुषविचार एवेदमाह
मू. (२५१) पडिमापडिवनसणं अनगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं०जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी।
धृ. स्फुटं, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथाप्रच्छनीमागदिः कथञ्चित्सूत्रार्थयोर्वा, तथाअनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यथदिव्याकरणी-प्रतिपादनीति ॥भाषाप्रस्तावाद्माषाभेदानाह
मू. (२५२) चत्तारि भासाजाता पं० तं०-सच्चमेगं भासजायं बीयं मोसं तइयं सच्चमोसं चउत्थं असचमोसं४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org