SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/१/२४९ मुण्डनादिकार्यस्य सिद्धस्य सिद्धत्वादिति । पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदार्थन्तिकसूत्राणि षङ्खिशतिमाह १९८ मू. (२५०) चत्तारि रुक्खा पं० तं० उन्नते नामेगे उन्नते १ उन्नते नाममेगे पणते २ पणते नाममेगे उन्नते ३ पणते नाममेगे पणते ४, १ एवामेव चत्तारि पुरिसजाता पं० तं०-उन्नते नामेगे उन्नते, तहेव जाव पणते नामेगे पणते २ । चत्तारि रुक्खा पं० उन्नते नाममेगे उन्नतपरिणए१ उण्णए नाममेगे पणतपरिणते २ पणते नाममेगे उन्नतपरिणते ३ वणए नाममेगे पणयपरिणए ४ एवामेव चत्तारि पुरिसजाया पं० तं०-उन्नते नाममेगे उन्नयपरिणते चउभंगो ४, ४ । चत्तारि रुक्खा पं० तं०-उन्नते नामेगे उन्नतरुवे तहेव चउभंगो ४, ५ एवामेव चत्तारि पुरिसजाया पं०-उन्नते नामं० ४, ६ । चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नतमणे उन्न० ४, ७ । एवं संकप्पे ८ पन्ने ९ दिट्ठी १० सीलायारे ११ ववहारे १२ परक्कमे १३ एगे पुरिसजाए पडिवक्खो नत्थि । चत्तारि रुक्खा पं० तं०-उज्जूनाममेगे उज्जू उज्जू नाममेगे वंके चउभंगो ४, एवामेव चत्तारि पुरिसजाता पं० तं०-उज्जूनाममेगे ४, एवं जहा उन्नतपणतेहिं गमो तहा उज्जूवंकेहिवि भाणियव्वो, जाव परक्कमे । २६ वृ. कण्ठ्यं, किन्तु वृश्चयन्ते - छिद्यन्ते इति वृक्षः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया 'नामे' ति सम्भावने वाक्यालङ्कारे वा 'एकः' कश्चिद्वृ क्षविशेषः, स एव पुनरुन्नतो- जात्यादिभावतोऽशोकादिरित्येको भङ्गः, उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतोजात्यादिभावैर्हीनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामेको द्रव्यतः खर्व्व इत्यर्थः स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतोद्रव्यत एव खर्व्वः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतः तुङ्गः अधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति 'एव'मित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिर्लौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैर्ज्ञानादिभिः प्रव्रज्यापर्याये अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः 'तहेव' त्ति वृक्षसूत्रमिवेदं, 'जाव' त्ति यावत् 'पणए नाम एगे पणए' त्ति चतुर्थभङ्गकस्तावद् वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवत् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्कालशौकरिकवद्वेति २, एवं दृष्टान्तदान्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह उन्नतः तुङ्गतया एको वृक्षः उन्नतपरिणतः अशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येकः, द्वितीये भङ्गे प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दार्शन्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परिणामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रं, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येवं, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमनाः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy