________________
१९७
स्थानं-४, - उद्देशकः-१ द्रव्यभावेहवर्जितत्वेनपरुषः, लूषयति वा कर्मामलमपनयतीतिलूषः, कथमसावेवंसंवृत्त इत्याहयतः “तीरट्ठी" तीरं-पारं भवार्णअवस्यार्थयतइत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरडेत्ति, अत एव उवहाणवं'ति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान्, अत एव-'दुक्खक्खवे'त्तिदुःखम्-असुखं तत्कारणत्वाद्वा कर्मतत्क्षपयतीतिदुःखक्षपः, कर्मक्षपणंचतपोहेतुकमित्यत आह-'तवस्सी'तितपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी,
'तस्स णं'ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं वर्द्धमानजिनस्येव तपः-अनशनादि भवति, तथा नो तथाप्रकारा-अतिधोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेतंपुरुषजातं-पुरुषप्रकारो दीर्पण' बहुकालेन पर्यायेण' प्रव्रज्यालक्षणेन करणभूतेन सिद्धयति-अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुध्ध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततोमुच्यतेभवोपग्राहिमकर्मभिः, ततः परिनिर्वातिसकलकर्मकृतविकारन्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवतीत्याह-सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः ? इति शङ्कापनोदार्थमाह___'जहा से इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताः-पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौ चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति १, ____ 'अहावरे'ति 'अथ'अनन्तरमपरा पूर्वापक्षयाऽन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिः-गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा य; स तथा, 'तस्स ण'मिति, तस्य-महाकर्मप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरंतपोभवति, एवं वेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, 'निरुद्धेने ति अल्पेन यथाऽसौगजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यांप्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैवपर्यायेण सिद्धवानिति, शेषंकण्ठ्यम्
'अहावरे त्यादिकण्ठ्यं, यथाऽसौसनत्कुमार इतिचतुर्थचक्रवर्ती, सहिमहातपामहावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्मवे सिद्धभावेन भवान्तरे सेत्स्यमानत्वादिति ३, _ 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्राय- कर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायुःसमाप्ती सिद्धत्वादिति ४,
एतेषांच दृष्टान्तदान्तिकानामर्थानांनसर्वथासाधम्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषां,यतो मरुदेव्या 'मुण्डे भवित्ते'त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org