________________
१९६
स्थानाङ्ग सूत्रम् ४/१/२४९ तवे भवति तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धणं परितातेणं सिझतिजाव अंतं करेति जहा से गतसूमाले अनगारे, दोचा अंतकिरिया २,
__ अहावरातचाअंतकिरिया, महाकम्मे पञ्चायाते याविभवति, सेणंमुंडे भवित्ताअगारातो अनगारियंपव्वतिते, जहा दोचा, नवरंदीहेणं परितातेणंसिज्झतिजावसव्वदुक्खाणमंतं करेति, जहा से सणंकुमारे राया चाउरंतचक्कवट्टी तच्चा अंतकिरिया ३,
____ अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जावतस्सणंनो तहप्पगारे तवे भवतिनोतहप्पगारावेयणाभवति, तहप्पगारे पुरिसजाए निरुद्धणं परितातेणसिज्झतिजाव सव्वदुक्खाणमंतं करेति, जहा सामरुदेवा भगवती, चउत्था अंतकिरिया ४
वृ. अस्य चायमभिसम्बन्धः-अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाधुक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियोच्यतइति, अथवा श्रुतं मयाऽऽयुष्मताभगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या-अन्तक्रिया-भवस्यान्तकरणम्तत्रयस्यनतथाविधंतपोनापिपरीषहादिजनितातथाविधा वेदना दीर्घेण च प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका १ यस्य तु तथाविधे तपोवेदने अल्पेनैवच प्रव्रज्यापर्यायेण सिद्धिः स्यात्तस्य द्वितीयार यस्यचप्रकृष्टेतपोवेदने दीर्घेणचपर्यायणसिद्धिस्तस्य तृतीया ३ यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हूस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति,
अन्तक्रियायाएकस्वरूपत्वेऽपिसामग्रीभेदात्चातुर्विध्यमितिसमुदायार्थः,अवयवार्थस्त्वयं-चतम्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेतिगम्यते, 'तत्रे'तिसप्तमी निर्धारणे तासुचतसृषुमध्येइत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षयाआद्याअन्तक्रिया, इह कश्चित्पुरुषः देवलोकादौ यात्वा ततोऽल्पैः-स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो मानुषत्वं इति अल्पकर्मप्रत्यायातोय इतिगम्यते, अथवा एकत्र जनित्वाततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकापेक्षया समुच्चयार्थः, अपि सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति-स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्कम्येतिगम्यतेअनगारितां-अगारी-गृहीअसंयतः तप्रतिषेधादनगारी-संयतस्तद्मावस्तत्तातांसाधुतामित्यर्थः,प्रव्रजितः-प्रगतःप्राप्त इत्यर्थः,अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः, किंभूत इत्याह'संजमबहुले'त्ति संयमेन-पृथिव्यादिसंरक्षणलक्षणेन बहुलः-प्रचुरो यः स तथा, संयमो वा बहुलो यस्यस तथा, एवंसंवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः, अथवाइन्द्रियकषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थं, यतः॥१॥ "एकं चिय एत्थ वयं निद्दिढ जिनवरेहिं सव्वेहिं।
पाणाइवायविरमणमवसेसा तस्स रक्खट्ठा" इति, एतच द्वितयमपिरागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अतआह-समाधिबहुलः, समाधिस्तुप्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह-'लूहे'रूक्षः-शरीरे मनसि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org