________________
स्थानाङ्ग सूत्रम् ३/४/२२८
राइटी तिविधा पं० तं०- रन्नो अतियाणिही रन्नो निजाणिड्डी रन्नोबलवाहण-कोसकोट्ठागारिड्ढी ४, अहवा रातिड्डी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता ५, गणिड्डी तिविहा पं० तं०नाणिड्डी दंसगिड्डी चरित्तिड्डी, अहवा गणिड्डी तिविहा पं० तं०-सचित्ता अचित्ता मीसिया ८, ।
वृ. 'तिविहा इड्डी' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य इन्द्रादेऋद्धिः ऐश्वर्यं देवद्धिरवं राज्ञः - चक्रवत्यदिर्गणिनो-गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम्
119 11
" बत्तीस अट्ठवीसा बारस अट्ठ चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे । सयचउर आणयपाणएसु तिन्नारणच्चुयए एक्कारसुत्तर हेट्ठिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अनुत्तरविमाणा' इति,
१८८
॥ २ ॥
॥३॥
उपलक्षणं चैतत् भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिवैक्रियार्द्ध:, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम्- “चमरे णं भंते ! केमहिड्डिए जाव केवतियं च णं पभू विउव्वित्तए ?, गोयमा ! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरे जाव तिरियमसंखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइने जाव करित्तए, एस णं गोयमा ! चमरस्स ३ अयमेयारूवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विँसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीवे जाव आइन्ने करेज"त्ति,
परिचारणा- कामासेवा तदर्द्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २ । सचित्ता-स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्त्राभरणादिविषया मिश्रा० - अलङ्कृ तदेव्यादिरूपा ३ । अतियानं नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्मर्व्वादिलश्रणा निर्यानं-नगरान्निर्गमः तत्र ऋद्धिः- हस्तिकल्पनसामन्तररिवारादिका बलं चतुरङ्गं वाहनानि - वेगसरादीनि कोशो-भाण्डागारं कोष्ठा - धान्यभाजनानि तेषामगार-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५ । ज्ञानर्द्धिर्विशिष्टश्रुतसम्पत्, दर्शनर्द्धिः प्रवचने निः शङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा चारित्रर्द्धिर्निरतिचारता ६ । सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति ७ । इह च विकर्वणादिॠद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह
मू. (२२९) ततो गारवा पं० तं० - इड्डीगारवे रसगारवे सातागारवे ।
वृ. 'तओ गारवेत्यादि व्यक्तं, परं गुरोर्भावः कर्म्म वेति गौरवं, तच्च द्वेधा- द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋध्ध्या- नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवं ऋद्धिगौरवं, ऋद्धिप्राप्यभिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org