________________
१८७
स्थानं-३,- उद्देशकः-४ पडिहन्निज्जा लुक्खत्ताते वा पडिहनिजा लोगंते वा पडिहनिजा
वृ. 'तिविहे' इत्यादि, पुद्गलानाम्-अण्वादीनांप्रतिघातो-गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत-गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तनिरूपणायाह
मू. (२२६) तिविहे चक्खू पं० तं०-एगचक्खू बिकक्खू तिचक्खू, छउमत्थे णं मणुस्से एगचक्खूदेवे बिचक्खूतहासवे समणेवा माहणे वा उप्पन्ननाणदसणधरे सेणं तिचक्खूत्तिक्त्तव्वं सिता
वृ.तिविहे' इत्यादि, प्रायः कण्ठ्यं, चक्षुः-लोचनंतद्रव्यतोऽक्षि भावतो ज्ञानंतद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मानित्यर्थः, स च त्रिविधः-चक्षुःसङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्नकेवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत्श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं चश्रुतावधिरूपं दर्शनं च-अवधिदर्शनरूपं यो धारयति-वहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली त्विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षयातुसोऽपिनविरुध्यत इति।चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह
मू. (२२७)तिविधेअभिसमागमे पं० २०-उटुंअहं तिरियं, जयाणंतहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पजति से णं तप्पढमताते उड्डममिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगेणं दुरभिगमे पन्नत्ते समणाउसो!
'तिविहे इत्यादि, अभीत्यर्थाभिमुख्येन नतु विपर्यासरूपतया समिति-सम्यक्नसंशयतया तथा आ-मर्यादया गमनमभिसमागमो-वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह-'जया ण'मित्यादि, 'अइसेस'त्ति शेषाणि-छद्मस्थज्ञानानान्यतिक्रान्तमतिशेष-ज्ञानदर्शनं तच्च परमावधिरूपमिति सम्माव्यते, केवलस्य नक्रमेणोपयोगोयेनतप्रथमतयेत्यादिसूत्रमनवद्युस्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तपथमता तस्यां 'उडंति' ऊर्ध्वलोकमभिसमेति-समवगच्छति जानाति ततस्तियगिति-तिर्यग्लोकंततस्तृतीयेस्थानेऽध इत्यधोलोकमभिसमेति, एवंच सामर्थ्यात्प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति ।
___अनन्तरमभिसमागम उक्तः, सचज्ञानंतचद्धिरिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधात् तभेदानाह
मू. (२२८) तिविधा इड्डी पं० तं०-देविटी राइट्टी गणिड्डी १, देविडतिविहा पं० तं०-विमाणिड्डी विगुव्वणिड्डी परियारणिड्डी २, अहवा देविड्डी तिविहा पं० तं०-सचित्ता अचित्ता मीसिता ३,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org