________________
१८०
स्थानाङ्ग सूत्रम् ३/४/२१६
सिक्खावित्तए ३, उवट्ठावित्तए ४, संभुंजित्तते ५, संवासित्तते ६, ।
वृ. 'तओ' इत्यादि कण्ठयं, किन्तु 'पण्डकं' नपुंसकं, तञ्च लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य119 11
“महिलासहावो सरवन्नभेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगंच, एयाणि छप्पंडगलक्खणाणि "त्ति,
तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु 'वाहिय'त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीब:असमर्थः, सचचतुर्द्धा-ष्टिक्लीबशब्दक्लीबादिग्धक्लीबनिमन्त्रणक्लीबभेदात्, तत्र यस्यानुरागतो विवाद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं श्रृण्वतः स द्वितीयो, यस्तु विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीबश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजियतुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं च
119 11
॥२॥
“जिनवयणे पडिकुटुं जो पव्वावेइ लोभदोसेणं ।
""
चरणओि तवस्सी लोवेइ तमेव उ चरितं
-इति, इहत्रयोऽप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह119 11 "बाले वुड्ढे नपुंसे य, जड्ढे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदंसणे दासे दुट्ठे मूढे, अणत्ते जुंगिए इय । ओबद्धए य भयए, सेहनिप्फेडिया इय
गुव्विणी बालवच्छाय, पव्वावेउं न कप्पइ"त्ति, अदंसणो- अन्धः अणत्तो ऋणपीडितः जुंगिओ-जात्यङ्गहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहनिप्फेडिआ - अपहत इति, 'एव’मित्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रव्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च
119 11
"पव्वाविओ सियत्ति, मुंडावेउं अनायरणजोगो । अहवा मुंडाविन्ते दोसा अनिवारिया पुरिमा' इति,
एवं शिक्षयितुं -प्रत्युपेक्षणादिसामाचारीं ग्राहयितुं, तथा उपस्थापयितुं - महाव्रतेषु व्यवस्थापयितुं, तथा सम्भोक्तुम् उपध्यादिना, एवमनाभोगात्संभुक्ताश्च संवासयितुम् - आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । कथञ्चित् संवासिता अपि वाचनाया अयोग्याः- न वाचनीया इति, तानाह
मू. (२१७) ततो अवायणिज्जा पं० तं०- अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, तं० - विणीए अविगतीपडिबद्धे विउसिंयपाहुडे । तओ दुसन्नप्पा पं० तं०-दुट्टे मूढे वुग्गाहिते, तओ सुसन्नप्पा पं० तं० - अदुट्ठे अमूढे अवुग्गाहिते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org