SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३ - उद्देशकः -४ 'तओ' इत्यादि सुगमं, नवरं न वाचनीयाः सूत्रंन पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्शस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम् ॥१॥ "इहरहवि ताव थब्भइ अविनीओ लंभिओ किमु सुएणं ? | मा नो नासिहिई खएव खारोवसेगो उ गोजूहस्स पडागा सयं पलायस्स वद्धइ य वेगं । ॥३॥ दोसोए य समणं न होइ न नियाणतुल्लं च " "विनयाहीया विज्जा देइ फलं इह परे य लोयंमि । न फलंतऽविनयगहिया सस्साणिव तोयहीणाइं "इति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धः अनुपधानकारीति भावः, इहापि दोष एव, ॥२॥ यदाह १८१ 119 11 "अतवो न होइ जोगो न य फलए इच्छियं फलं विज्जा । अवि फलति विउलमगुणं साहणहीणा जहा विज्जा" इति, अव्यवसितम्-अनुपशानतं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्तं च ॥ १ ॥ "अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो अविओसियपाहुडो स खलु " इति, 'पारमाणि' परमक्रोधसमुद्घातं व्रजतीति भावः स एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊषरक्षिप्तबीजवदिति, आह च 11911 "दुविहो उ परिचाओ इह चोयण कलह १ देवयाछलणं २ । परलोगंमि अ अफलं खित्तंपि व ऊसरे बीयं " इति, एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानीं सम्यकत्वस्याप्ययोग्यानाह'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन - कृच्छ्रेण संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो - द्विष्टः सत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युद्ग्राहितः कुप्रज्ञापक ध्ढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च "पुव्वं कुग्गहिया केई, बाला पंडियमानिनो । 11911 च्छंति कारणं सोउं, दीवजाए जहा नरे" इति, एतेषां स्वरूपं कल्पात् कथाकोशाच्चावसेयमिति । एतद्विपर्यस्तान् सुसंज्ञाप्यतयाऽऽह'तओ' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः, अधुना तठप्रज्ञापनीयवस्तूनि त्रिस्थानकावतारण्याह मू. (२१८) ततो मंडलिया पव्वता पं० तं०-मानुसुत्तरे कुंडलवरे रुअगवरे । वृ. 'तओ मंडलिए 'त्यादि, मण्डलं चक्रवालं तदस्ति येषां ते मण्डलिकाः - प्राकारवलयवदवस्थिता मानुषेभ्यो मानुषक्षेत्राद्वोत्तरः- परतोवर्त्ती मानुषोत्तर इति, तत्स्वरूपं चेदम्"पुक्खरवरदीवहं परिखिवइ मानुसुत्तरो सेलो । 119 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy