________________
-
स्थानं -३, - उद्देशकः -४
१७९ तत्र दुष्टो-दोषवान् कषायतो विषयतश्च, पुनरेकैको द्वेधा, सपक्षविपक्षभेदात्, उक्तंच॥१॥ "दुविहो य होइ दुट्ठो कसायदुट्ठोय विसयदुट्ठोय ।
दुविहो कसायदुट्ठो सपक्खपरपक्ख चउभंगो" तत्र स्वपक्षे कषायदुष्टो यथा सर्षपनालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तमञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम्॥१॥ "लिंगेण लिंगिणीए संपत्ति जो निगच्छई पावो ।
सव्वजिणाणऽजाओ संधो वाऽऽसाइतो तेणं ॥२॥ पावाणं पावयरो दिठ्ठिप्फासेवि सोन कप्पति तु
जो जिण पुंगवमुदं नमिऊण तमेव धरिसेइ" त्ति,
“संसारमणवयग्गंजाइजरामरणवेयणापउरं।
पावमलपडलछन्ना भमंतिमुद्दाधरिसणेणं " इति, -परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजानमहिष्यधिगन्तेति, उक्तंच॥१॥ “जो य सलिंगे दुट्ठो कसाय विसएहिं रायवहगोय।
रायग्गमहिसिपरिसेवओ य बहुसो पयासो य" प्रमत्तः-पञ्चमनिद्राप्रमादवान्, मांसाशिप्रव्रजितसाधुवदिति, अयंच सद्गुणोऽपित्याज्य इति, आह च॥१॥ "अवि केवलमुप्पाडे नय लिंगं देइ अनइसेसी से।
देसवयदंसणं वा गेण्ह अनिच्छे पलायंति" तथा, अन्योऽन्य-परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन्, पुरुषयुगमिति शेषः, उच्यते च-“आसयपोसयसेवी केविमणूसादुवेयगाहोति।तेसिलिंगविवेगो"त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाःसाधवस्तेषां सत्कस्योत्कृष्टोपधिशिष्यादेर्वा बहुशो वाप्रद्विष्टचित्तोवा, तेणं'तिस्तेयं-चौर्यं कुर्वन्, तथा अन्यधार्मिकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्यो पध्यादेः स्तेयं कुर्वन्निति १ तथा हस्तेनाऽऽताडनंहस्ततालस्तं 'दलमाणे' ददत्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष आत्मानः परस्य वा प्रहरनिति भावः, उक्तंच॥१॥ “उक्कोसंबहुसो वा पदुद्दचित्तो व तेणियं कुणइ ।
पहरइ जो य सपक्खे निरवेक्खो घोरपरिणामो" अथवा 'अत्थायाणं दलमाणो'त्ति पाठस्तत्र अर्थादानं-द्रव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत्, प्रयुआन इत्यर्थः, अथवा ‘हत्थालंबं दलमाणे'त्तिपाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्बं ददद्, अशिवपुररोधादौ तत्पशमनार्थमभिचारकमन्त्रविद्यादि प्रयुआन इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह
मू. (२१६) ततो नो कप्पंति पव्वावेत्तए, तं०-पंडए वातिते कीवे १, एवं मुंडावित्तए २,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org