________________
स्थानं-३, - उद्देशकः -४
१७५
॥३॥ (इह च) “सोलस उग्गमदोसा गिहियाओ समुट्ठिए वियाणाहि ।
उप्पायणाय दोसा साहूओ समुट्ठिए जाण' एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया वा विशुद्धिःपिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्गमादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह-‘एवं विसोही' ।
मू. (२०९) तिविहा आराहणा पं० तं०-नाणाराहणा दंसणाराहणा चरित्ताराहणा ५, नाणाराहणा तिविहा पं०- उक्कोसा मज्झिमा जहन्ना ६, एवंदंसणाराहणावि७, चरित्ताराहणावि ८, तिविधे संकिलेसे पं०- नाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे ९, एवं असंकिलेसेवि १०, एवमतिक्कमेऽवि११, वइक्कमेऽवि१२, अइयारेऽवि १३, अनायारेवि १४।तिण्हमतिकमाणं आलोएज्जा पडिक्कमेचा निंदिजा गरहिज्जा जाव पडिवजिज्ञा, तं०-नाणातिक्कमस्स दंसणातिक्कम चरित्तातिक्कमस्स १५, एवं वइक्कमाणवि १६, अतिचाराणं १७, अनायाराणं १८
वृ.ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिष्वष्टस्वाचारेषुप्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवंदर्शनस्य निःशङ्कितादिषुचारित्रस्य समितिगुप्तिषु, साचोत्कृष्टादिभेदाभावभेदात् कालभेदाद्वेति, ज्ञानादिप्रतिपतनलक्षणः, सङ्किलश्यमानपरिणामनिबन्धनो ज्ञानादिसङ्कलेशः, ज्ञानादिशुद्धिलक्षणो विशुद्धमानपरिणामहेतुकस्तदसङ्कलेशः । “एव'मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्॥१॥ “आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ १।
पयभेयादि वइक्कम २ गहिए तइ३एयरो गिलिए" इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्याशामुपबृंहणार्थं वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । 'तिण्हं अइक्कमाणं'ति षष्ठया द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेत्-गुरवे निवेदयेदित्यादि प्राग्वत्, नवरंयावत्करणात् विसोहेज्जा विउद्देजाअकरणयाए अब्भुटेजा अहारिहं तवोकम्मं पायच्छित्त'मित्यध्येतव्यमिति,
मू. (२१०) तिविधे पायच्छित्ते पं० तं०-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे १९
वृ.पापच्छेदकत्वात्प्रायश्चित्तविशोधकत्वाद्वाप्राकृतेपायच्छित्तमितिशुद्धिरुच्यतेतद्विषयः शोधनीयातिचारोऽपिप्रायश्चित्तमिति, तच्च त्रिधा, दशविधत्वेऽपितस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना-गुरवेनिवेदनंतांशुद्धिभूतामर्हतितयैवशुद्धति यदतिचारजातंभिक्षाचर्यादि तदालोचनाहमिति, एवं प्रतिक्रमणं-मिथ्यादुष्कृतंतदहं सहसाअसमितत्वमगुप्तत्वं चेति, उभयम्आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्धगाथेह॥१॥ "भिक्खायरियाइ सुज्झइ अइयारो कोवि वियडणाए ।
बीओ य असमिओमित्ति कीस सहसा अगुत्तो वा? सद्दाइएसु रागं दोसं च मणो गओ तइयर्गमि" त्ति । एते च प्रज्ञापनादयो धाः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org