________________
स्थानं
- ३ - उद्देशकः -४
१७३
च गृहिणा तस्योपादानमित्युपादानसूत्रं तदप्येवमेवनेति, 'ओवाइणित्तए' त्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयमपि, नवरं पृथिवीशिला उड्डगो त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्ताराभ्यां शिला चेति काष्ठ शिला 'यथासंस्तृतमेवे 'ति यत्तृणादि यथोपभोगाईं भवति तथैव यल्लभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह
मू. (२०६) तिविहे काले पत्रत्ते तं०-तीए पडुप्पन्ने अनागए, तिविहे समए पं० तं०-तीते पडुप्पन्ने अनागए, एवं आवलिया आणापाणू झोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुव्वे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे पं० तं०- तीते पडुप्पन्ने अनागते ।
वृ. अति-अतिशयेनेतो-गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्त्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नः प्रत्युत्पन्नो वर्त्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं च
119 11
“भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् " इति ।
कालासामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह - 'तिविहे समये ' इत्यादि कालसूत्राणि समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येयाः, नवरं 'पोग्गलपरियट्टे' त्ति पुद्गलानांरूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेण ग्रहणतः एकजीवापेक्षया परिवर्त्तनं-सामस्त्येन स्पर्शः पुद्गलपरिवर्त्तः, स च यावता कालेन भवति स कालोऽपि पुद्गलपरिवर्त्तः, स, चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्तः
“कतिविहे णं भंते ! पोग्गलपरियट्टे पन्नत्ते ?, गोयमा ! सत्तविहे पन्नत्ते, तंजहाओरालियपोग्गलपरियट्टे वेउब्वियपोग्गलपरियट्टे एवं तेयाकम्मांमणवइआणापाणूपोग्गलपरियट्टे” तथा 'सेकेणणं भंते! एवं बुच्चइ - ओरालियपोग्गलपरियट्टे २ ?, गोयमा ! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीररपाउग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाई जाव निसट्ठाई भवंति से तेणऽट्टेणं गोयमा ! एवं वुच्चइ ओरालियपोग्गलपरियट्टे ओ० २” । एवं शेषा अपि वाच्याः, तथा 'ओरालियपोग्गलपरियट्टेणं भंते! केवइकालस्स निव्वट्टिज्जइ ?, गोयमा ! अनंताहिं उस्सप्पिणीओसप्पिणीहिं'ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते
॥१॥ “ ओराल १ विउव्वा २ तेय ३ कम्म ४ भासा ५ SSनुपाणु ६ मणगेहिं ७ । फासेवि सव्वपोग्गल मुक्का अह बायरपरट्टो दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेणं । लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का ।” इति,
द्रव्यपुद्गलपरिवर्त्तसध्शा येऽन्ये क्षेत्रकालभावपरिवर्त्तास्तेऽन्यतोऽवसेया इति । एते च समयादयः पुद्गलपरिवर्त्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकं अर्थमाश्रित्यैकवचनान्ततयोक्ताः भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह
119 11
मू. (२०७) तिविहे वयणे पं० तं०- एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे पं० तं० - इत्थिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० तं०-तीतवयणे पडुप्पन्नवयणे अनागयवयणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org