________________
१७२
स्थानाङ्ग सूत्रम् ३/३/२०४
॥१॥ “पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः।
दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" इति, अनाश्रवो-नवकर्मानुपादानम्, अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं-पूर्वकृतकर्मवनलवनं 'दाप् लवने' इति वचनात् कर्मकचवरशोधनं वा दैप्शोधन' इतिवचनादिति, अक्रिया-योगनिरोधः, निर्वाणं-कर्मकृतविकाररहितत्वं सिद्धयन्ति-कुतार्था भवन्ति यस्यां सा सिद्धिः-लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलंसर्वान्तिमप्रयोजनंयस्यनिर्वाणस्यतत्सिद्धिगतिगमनपर्यावसानफलंप्रज्ञप्तंमयाअन्यैश्च केवलिभिः, [हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानमन्त्रयन्निदमुवाचेति]
स्थानं-३ - उद्देशकः-३ समाप्तः
-:स्थानं-३-उद्देशकः-४:वृ.व्याख्यातः तृतीयउद्देशकः, अधुनाचतुर्थंआरभ्यते, अस्य चायमभिसम्बन्धः-पूर्वस्मिन् उद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं पडिमे'त्यादि, अस्यच पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ताइहतुतद्विशेषस्यकल्पविधिरूच्यत इत्येवंसम्बन्धितस्यास्यव्याख्या
मू. (२०५) पडिमापडिवनस्स अनगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०अहे आगमणगिहंसि वा अहे वियडंगिहंसि वा अहे रुक्खमूलगिहसि वा, एवमनुन्नवित्तते, उवातिनित्तते, पडिमापडिवनस्सअनगारस्सकप्पंतितओ संथारगापडिलेहित्तते, तं०-पुढविसिला कट्ठसिला अहासंथडमेव, एवं अनुन्नवित्तए उवाइनित्तए
वृ. 'प्रतिमां' मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्ते युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थं येते उपाश्रयाःवसतयः प्रत्युपेक्षितुम्-अवस्थानार्थं निरीक्षितुमिति, अहे'त्तिअथार्थः,अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणांप्रतिमाप्रतिपन्नस्यसाधोः कल्पनीयतया तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं-सभाप्रपादि, यदाह॥१॥ "आगन्तु गरत्थजणो जहिं तु, संठाइजं वाऽऽगमणमि तेर्सि।
तं आगमो किंतु विदू वयंति, सभापवादेउलमाइयंच" इति, तस्मिन् उपाश्रयः-तदेकदेशभूतःप्रत्युपेक्षितुंकल्पत इतिप्रक्रमइति, तथा वियर्ड'ति विवृतम्अनावृतं, तच्च द्वेधा-अध ऊर्द्धं च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्धविवृतं तदेव गृहं विवृतगृहम्, उक्तंच॥१॥ “अवाउडं जंतुचउद्दिसिपि, दिसामहो तिन्नि दुवे य एक्का ।
__अहे भवेतं वियडं गिहं तु, उड्ढे अमालंच अतिच्छदं च" त्ति,
तस्मिन्वा, तथा वृक्षस्य-करीरादेर्निर्गलस्यमूलम्-अधोभागस्तदेवगृहं वृक्षमूलगृहंतस्मिने वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्-एवं मिति, एतदेव 'पडिमापडिवन्ने'त्याधुच्चारणीयं, नवरंप्रत्युपेक्षणास्थानेअनुज्ञापनं वाच्यमिति ।अनुज्ञाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org