________________
स्थानं - ३, - उद्देशकः -३
119 11
- इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्म्मकथा, उक्तं च“दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता । धर्म्मोपादेयतागर्व्या, बुधैर्धर्मकथोच्यत" (तथा-) "धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्तं पशोस्तुल्यं, धिग्धर्मरहितं नरम् "
- इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि यदाह“कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका ।
॥१॥
अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता "
॥ २ ॥ तथा-"स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हृदयोपगूहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम् "
119 11
इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णरूपा वा, अर्थादिविनिश्चयाः अर्थादिस्वरूपपरिज्ञानानि तानि च"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम्' (तथा ) " धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः
11
""
॥२॥
॥२॥
१७१
॥ ३ ॥
(तथा ) " शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम् "
इत्यादीनि ॥ अनन्तरमर्थादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गो भगवत्प्रश्नद्वारेण निरूपयन्नाह
मू. (२०३) तहारूवं णं भंते! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता सवणफला, से णं भंते! सवणे किंफले ?, नाणंफले से गं भंते! नाणे किंफले ?, विन्नाणफले, एवमेतेणं अभिलावेणं इमा गाथा अनुगंतव्वा
वृ. 'तहारूवे'त्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्म्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति ज्ञानं श्रुतज्ञानं विज्ञानम्अर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एव' मिति पूर्वोक्तेनाभिलापेन 'से णं भंते! विन्नाणे किंफले पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या अनुसरणीया, एतद्गाथोक्तानि पदान्यध्येतव्यानीत्यर्थः
मू. (२०४) सवणे नाणे य विन्नाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरिय निव्वाणे
[ जाव से णं भंते! अकिरिया किंफला ?, निव्वाणफला, से णं भंते! निव्वाणे किंफले ?, सिद्धिगइगमणपञ्जवसाणफले पन्नत्ते, समणाउसो ! ॥]
वृ. 'सवणे' इत्यादि, भावितार्था, नवरम् प्रत्याख्यानं-निवृत्तिद्वारेण प्रतिज्ञानकरणं संयमःप्राणातिपाताद्यकरणम्, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org