SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १७० स्थानाङ्ग सूत्रम् ३/३/२०१ वाआत्मार्थं वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थं वोपक्रमः परोक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयार्थं वोपक्रमस्तदुभयोपक्रम इति, “एव'मिति उपक्रमसूत्रवत्आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्मवावैयावृत्त्यंभक्तादिभिरुप-ष्टम्भः, तत्रात्मवैयावृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यंग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यंगच्छवासिनइति, अनुग्रहो-ज्ञानाद्युपकारः, तत्रआत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहोवाचनादिप्रवृत्तस्यतदुभयानुग्रहःशास्त्रव्याख्यानशिष्यसङ्ग्रहादिप्रवृत्तस्येति, अनुशिष्टिःअनुशासनम्, तत्र आत्मनो यथा॥१॥ "बायालीसेसणसंकडंमि गहणमंजीव ! नहुछलिओ । इण्डिं जहन छलिज्जसि भुंजतो रागदोसेहिं" - इति, (तथा विधेयमिति शेष इति), परानुशिष्टिर्यथा॥२॥ ___"ता तंसि भाववेजो भवदुक्खनिपीडिया तुहं एते। हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं" - इति, तदुभयानुशिष्टिर्यथा॥१॥ "कहकहऽवि मानुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ पमाओ कइयाविन जुज्जए अम्हं" इति, उपालम्भः-इयमेवानौचित्यप्रवॉत्तिप्रतिपादनगर्भा, स चात्मनो यथा॥१॥ “चोल्लगदिटुंतेणं दुलह लहिऊण माणुसं जम्मं । जंन कुणसि जिनधम्मं अप्पा किं वेरिओ तुज्झ?" __ - इति, परोपालम्भो यथा॥१॥ "उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुमं वच्छ!। उत्तमनाणगुणवो कह सहसा ववसिओ एवं?" -इति, तदुभयोपालम्भो यथा॥२॥ एगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ? "ति, “एव'मित्यादिनापूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना-यथैवोपक्रमे आत्मपरतदुभयैय आलापका उक्ताः एवमेकैकस्मिन वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति अथ श्रुतधर्मभेदा उच्यन्ते मू. (२०२) तिविहा कहा, पं० तं०-अत्थकहाधम्मकहा कामकहा७,तिविहे विनिच्छते पं० तं०-अत्थविनिच्छते धम्मविनिच्छते कामविनिच्छते ८, वृ.अर्थस्य-लक्ष्म्याः कथा-उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा उक्तंच॥१॥ “सामादिधातुवादादिकृष्यादिप्रतिपादिका। अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता" ॥२॥ (तथा-)"अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते। तृणादपि लघु लोके, दिगर्थरहितं नरम्" इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy