________________
१५७
स्थानं-३, - उद्देशकः-३ शब्दादयस्तेच कामभोगास्तेषुमूर्छित इवमूर्छितो-मूढः, तत्स्वरूपस्यानित्यवादेविबोधाक्षमत्वात्, गृद्धः-तदकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित एव ग्रथितस्तद्विषयस्नेहरज्जूभिः सन्दर्भित इत्यर्थः, अध्युपपन्नः-आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, 'नोआद्रियते'नतेष्वादरवान्भवति 'नो परिजानाति एतेऽपिवस्तुभूता इत्येवंन मन्यते, तथा तेष्विति गम्यते, नो अर्थ बज्जाति-एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम्-अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तुस्थिरीभवन्त्वित्येवंरूपंस्थित्यावा-मर्यादया विशिष्टः प्रकल्पः-आचारसेवत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं १,
तथा यतोऽसावधुनोपपन्नोदेवोदिव्येषुकामभोगेषुमूर्छितादिविशेषणोभवति ततस्तस्य मानुष्यकं-मनुष्यविषयं प्रेम-स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यंस्वर्गगतवस्तुविषयंसठ्ठन्तं-तत्रदेवेप्रविष्टंभवतीति दिव्यप्रेमसङ्क्रन्तिरितिद्वितीयम् २,तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं ति तस्यदेवस्य ‘एवं'ति एवंप्रकारं चित्तं भवति, यथा 'इयण्हिति इत इदानीं न गच्छामि, 'मुहत्तंति मुहूर्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं'ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तोभवतितेन कालेनगतेनेतिशेषः, तस्मिन्वाकाले गते,णंशब्दोवाक्यालङ्कारार्थः, अल्पायुषःस्वभावादेव मनुष्यामात्रादयो यद्दर्शनार्थमाजिगमिषतितेकालधर्मेण-मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्तव्यता नाम तृतीयामिति ३, 'इच्चेएही'त्यादिनिगमनं ३।
देवकामेषु कश्चिदमूर्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधक-प्रव्राजकादिः अनुयोगाचार्योवा इतिः' एवंप्रकारार्थोवाशब्दोविकल्पार्थः, प्रयोगस्त्वेवं-मनुष्यभवेममाचार्योऽस्तीति वा, उपाध्यायः-सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तंच॥१॥ “तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ ।
असहुंच नियत्तेई गणतत्तिल्लो पवत्ती उ ॥" इति, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति इति स्थवरिः, उक्तंच॥१॥ “थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु ।
जो जत्थ सीयइ जई संतबलोतं थिरं कुणइ॥" ति, गणोऽस्यास्तीतिगणी-गणाचार्यः, गणधरो-जिनशिष्यविशेषः आर्यिकाप्रतिजा-गरको वा साधुविशेषः, उक्तंच॥१॥ "पियधम्मे दढधम्मे संविग्गो उजुओ य तेयंसी।
संगहुवग्गकुसलो सुत्तत्थविऊ गणाहिवई॥" गणस्यावच्छेदो-विभागोऽशोऽस्यास्तीति, योहि गणंशं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च॥॥ "उद्धा वणापहावणखेत्तोवहिमग्गणासु अविसाई।
सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ।।" इति,
तुप3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org