________________
१५६
स्थानाङ्ग सूत्रम् ३/३/१८९
तथा 'देवा'वैमानिकज्योतिष्काः 'नागा' नागकुमारा भवनपत्युपलक्षणमेतत्, यक्ष भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्यं नागदयस्तु विशेषः, एतद्ग्रहणंच प्राय एषामेवंविधे कर्म्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाज्जनपदैरिति गम्यते, ततश्च तत्र-मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम्-उत्पन्नं उदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं' उदकदायकावस्थाप्राप्तम्, अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति-नयन्तीति द्वितीयं, अभ्राणि - मेघास्तैर्वद्दलकं-दुर्द्दिनं अभ्रवद्दलकं 'वाउआए' त्ति वाउकायः प्रचण्डवातो 'विधुनाति' विध्वंसयतीति तृतीयम् 'इच्चे' इत्यादि नि गमनमिति, एतद्विपर्यासादनन्तरसूत्रम् ।
मू. (१९०) तिहिं ठाणेहिं अहुणोबवन्ने देवे देवलोगेसु इच्छेज माणुस्सं लोगं हव्वमागच्छित्तते, नो चेव णं संचातेति हव्वमागच्छित्तए तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे नो आढातिनो परियाणाति नो अट्ठ बंधति नो नियाणं पगरेति नो ठिइपकप्पं पकरेति, अहणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे वोच्छिन्ने दिव्वे संकंते मवति, अहुणोववत्रे देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने तस्स णं एवं भवति - इयहि न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्स कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचातेति हव्वमागच्छित्तते ३ ।
तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसु इच्छेज्जा माणूसं लोगं हव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति - अत्थि णं मम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वा गणीती वा गणधरेति वा गणावच्छदेति वा, जेसिं पभावेणं मते इमा एतारुवा दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवानुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते वंदामि नम॑सामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिए जाव अणज्झोववन्ने तस्स णं एवं भवति - एस णं माणुसते भवे नाणीति वा तवस्सीति वा अतिदुक्करदुक्करकारगे तं गच्छामि णं भगवंतं वंदामि नम॑सामि जाव पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवतिअत्थि णं मम माणुसते भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविड्डुिं दिव्वं देवजुतिं दिव्वं देवानुभावं लद्धं पत्तं अभिसमन्नागयं, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणूसं लोगं हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते, ४
वृ. अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषूत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत् पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तं 'हव्वं' शीघ्रं 'संचाएइ 'त्ति शक्नोति, दिवि देवलोके भवा दिव्यास्तेषु कामौ च - शब्दरूपलक्षणी भोगाश्चगन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामाः मनोज्ञास्ते च ते भुज्यन्त इति भोगाः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International