________________
स्थानं - ३ - उद्देशक:-३
वतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह
मू. (१८८) तिविहे वयणे पं० तं०-तव्वयणे तदन्नवयणे नोअवयणे, तिविहे अवयणे पं० तं० - नोतव्वयणे नो तदन्नवयणे अवयणे । तिविहे मणे पं० तं०-तम्मणे तयन्नमणे नोअमणे, तिविहे अमणे पं० तं०-नोतंमणे नोतयन्नमणे, अमणे
१५५
वृ. सूत्रचतुष्टयम्, अस्य गमनिका - तस्य-विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद् - विवक्षितघटादेरन्यः पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्रं डित्थादिवदिति, अथवा सःशब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्म्मविशिष्टादन्यः - शब्दप्रवृत्तिनिमित्तधर्म्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थो, डित्थादिवत्,
अथवा तस्य- आचार्यादिर्वचनं तद्वचनं तद्वयतिरिक्तवचनं तदन्यवचनं - अविवक्षितप्रणेतृविशेषं नो अवचनं वचनामात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि - नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरोपेक्षयाऽपि नेयम् तस्य- देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः ततो देवदत्ताद् अन्यस्य-यज्ञदत्तादेर्घटनापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रं नोअमन इति, एतदनुसारेणामनोऽप्यूह्यमिति ।। अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् 'तिही' त्यादिभिरष्टाभिः सूत्रैराह -
मू. (१८९) तिहिं ठाणेहिं अप्पवुट्टीकाते सिता, तं० तस्सि चणं देसंसि वा पदेसंसि वा नो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्क मंति विउक्कमंति चियंति उववज्रंति, देवा नागा जक्खा भूतानो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देतं साहरंति अब्भवद्दलगं च णं सभुद्धितं परिणतं वासितुकामं वाउकाए विधुणति, इच्छेतेहिं तिहिं ठाणेहिं अप्पवुट्ठिगाते सिता १ ।
तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा-तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्जंति, देवा जक्ख नागा भूता सम्माराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणयं वासिउकामं तं देतं साहरंति अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं नो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ २ ।
वृ. सुगमानि चैतानि, किन्तु 'अप्पबुट्टिकाए 'त्ति, अल्पः स्तोकः अविद्यमानो वा वर्षणं वृष्टिः- अध: पतनं वृष्टिप्रधानः कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्म्मयुक्तं वोदकं वृष्टिः, तस्याः कायो - राशिर्वृष्टिकायः, अल्पश्चासी वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद्' भवेत् तस्मिंस्तत्र -मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, 'देशे' जनपदे प्रदेशे-तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थी, उदकस्य योनयः- परिणामकारणभूता उदकयोनयस्य एवोदकयोनिका-उदकजननस्वभावा 'व्युत्क्रमन्ति' उत्पद्यन्ते 'व्यपक्रमन्ति' च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते क्षेत्रस्वभावादित्येकं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org