________________
१५८
स्थानाङ्ग सूत्रम् ३/३/१९०
‘इम’त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा दिव्यास्वर्गसम्भवा प्रधाना वा देवानां सुराणामृद्धिः -श्रीर्विमानरत्नादिसम्पद्देवद्दिर्द्धः, एवं सर्वत्र, नवरं धुतिः- दीप्तिः शरीराभरणादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागः - अचिन्त्या वैक्रियकरणादिका शक्तिः लब्धः-उपार्जितो जन्मान्तरे प्राप्तः इदानीमुपनतः अभिस- मन्वागतोभोग्यतां गतः, 'तदि' ति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्याद त्क रणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया 'पर्युपासे' सेवे इत्येकं, 'एस णं' ति ‘एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्यके भवे वर्त्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? - दुष्कराणां सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत्' तस्माग्दच्छामित्तिपूर्वमेकवचननिर्द्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तानू दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयं, तथा 'मायाइ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वे 'त्ति यावच्छब्दाक्षेपः स्नुषा - पुत्रभार्या, 'तदि'ति तस्मात् तेषामन्तिके - समीपे 'प्रादुर्भवामि' प्रकटीभवामि, 'तो मे' त्ति तावत् मे ममेति तृतीयं ॥
'मू. (१९१) ततो ठाणाइं देवे पीहेजा तं० - माणुसं भवं १ आरिते खेत्ते जम्मं २ सुकुलपच्चायातिं, ३, ५ ।
तिहिं ठाणेहिं देवे परितप्पेज्जा, तं० - अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विज्जमाणेहिं कल्लसरीरेणं नो बहुते सुते अहीते 9, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं नो दीहे सामन्नपरिताते अनुपालिते २, अहो णं मते इड्डिरससायगरुएणं भोगामिसगिद्धेणं नो विसुद्धे चरित्ते फासिते ३, इच्छेते० ६ । बृ. 'पीहेज ' त्ति स्पृहयेद्-अभिलषेदार्यक्षेत्रम् - अर्द्धषड्विंशतिजनपदानामन्यतरत् मगघादि सुकुले - इक्ष्वाकादौ देवलोकात् प्रतिनिवृत्तस्याजातिः - जन्म आयातिर्वा आगतिः सुकुलाप्रत्याजातिः सुकुलाप्रत्यायातिर्वा तामिति ।
'परितप्पेज' त्ति पश्चात्तापं करोति, अहो विस्मये 'सति' विद्यमाने बले शरीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमे' उपद्रवाभावे सति 'सुभिक्षे' सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, 'विसयतिसिएणं' ति विषयतृषितत्वादिहलोकप्रतिबन्धादिनादीर्घ श्रामण्यपर्यायापालनं इति द्वितीयं तथा ऋद्धिः - आचार्यत्वादी नरेन्द्रादिपूजा रसा - मधुरादयो मनोज्ञाः सातं सुखमेतानि गुरुणि आदरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन अथवा एभिइर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्म्मभारतयाऽलघुकस्तेन भोगेषु कामेषु आशंसा च-अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम् अनतिचारं चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् ।
मू. (१९२) तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंजहा - विमाणाभरणाइं निप्पभाई पासित्ता कप्परुक्खगं मिलायमाणं पासित्ता अप्पणी तेयलेस्सं परिहायमाणि जाणित्ता, इचे०३, ७
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International