________________
१५०
स्थानाङ्ग सूत्रम् ३/२/१८०
'तत्र' तेषु याऽसावकृता' यत्तदकृतं कर्म 'नो क्रियते न भवति नोतांपृच्छन्ति, अकृतस्यासतश्च कर्मणःखरविषाणकल्पत्वादिति, अमुमेवच भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तुतत्संमतइतितंपृच्छन्ति, अतएवाह-तत्र याऽसावकृता क्रियते' यत्तदकृतं-पूर्वमविहितंकर्मभवति-दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो-यदि निर्ग्रन्था अपि अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृतीयमेव पृच्छन्तीति भावः,
'से'त्तिअथतेषामकृतकर्मामभ्युपगमवतामेवं-वक्ष्यमाणप्रकारंवक्तव्यम्-उल्लापः स्यात्, तएववाएवमाख्यान्तिपरान् प्रति, यदुत-अथैवं वक्तव्यं प्ररूपणीयंतत्त्ववादिनांस्यात्-भवेद्, अकृते सति कर्मणि दुःखभावात् अकृत्यम्-अकरणीयमबन्धनीयम्-अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं ? - 'दुक्खं' दुःखहेतुत्वात् कर्म, 'अफुस्सं'ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणंच-वर्तमानकालेबध्यमानंकृतंचातीतकाले बद्धंक्रियमाणकृतंद्वन्द्वकत्वंकर्ममधारयो वान क्रियमाणकृतमक्रियमाणकृतं, किंतत्?-दुःखं-कर्म अकिञ्चंदुक्ख'मित्यादिपदत्रयं, 'तत्थ जा साअकडा कज्जइतंपुच्छं;'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा-द्वीन्द्रियादयः भूताः-तरवो जीवाः-पञ्चेन्द्रियाः सत्त्वाः-पृथिव्यादयो, यथोक्तम्॥१॥ “प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः।
जीवा; पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः" इति, वेदना-पीडांवेदयन्तीति वक्तव्यमित्ययंतेषामुल्लापः, एतद्वातेअज्ञानोपहतबुद्धयो भाषन्ते परान्प्रति, यदुत-एवं वक्तव्यं स्यादिति प्रक्रमः॥एवमन्यतीर्थिकमतमुपदय निराकुर्वन्नाह-'जे ते'इत्यादि, य एते अन्यतीर्थिका एवम्-उक्तप्रकारमाहंसुत्ति-उक्तवन्तः 'मिथ्या' असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः ‘आहेसु'त्ति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवेन हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह
'अहमित्यादि 'अहं'तिअहमेवनान्यतीर्थिकाः, पुनःशब्दोविशेषणार्थःसचपूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, एवमाइक्खामी'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्य-स्पृष्टलक्षणबन्धावस्थायोग्यं क्रियमाणंवर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह-कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयोवेदनां-कर्मकृतशुभाशुभानुभूतिं वेदयन्ति-अनुभवन्तीतिवक्तव्यं स्यात्सम्यग्वादिनामिति
स्थानं-३ -उद्देशकः-२ समाप्तः
स्थान-३-उद्देशकः-३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्दशके विचित्रा जीवधाः प्ररूपिताः इहापित एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योदेशकस्यादिसूत्रत्रयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org