SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ स्थानाङ्ग सूत्रम् ३/१/१५५ वृ. 'पंचमए'इत्यादि, सुबोधं केवलं ‘उसिणवेयण ति तिसृणामुष्णभावत्वात्, तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते-नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥नरकपृथिवीनां क्षेत्रस्वभावानांप्रारस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह मू. (१५६) ततोलोगेसमा सपक्खि सपडिदिसिंपं० २०-अप्पइट्ठाणे नरएजंबुद्दीवेदीवे सव्वट्ठसिद्धेमहाविमाणे, तओलोगेसमा सपक्खिसपडिदिसिंपं०२०-सीमंतएणंनरएसमयक्खेते ईसीपब्भारा पुढवी। वृ. 'तओ' इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपितुऔत्तराधर्यव्यवस्थिततयासमश्रेणितयाऽपीत्यतआह-सपक्खि'मित्यादि, पक्षाणां-दक्षिणवामादिपाश्र्वानां सशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सशता सप्रतिदिक् तेन समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानंपञ्चानामनुत्तराणांमध्यममिति।सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटेनरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षणि,समयः-कालः तत्सत्तोपलक्षितं क्षेत्रसमयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद-अल्पो योजनाष्टकबाहल्यपञ्चचत्वरिंशल्लक्षविष्कम्भात् प्राग्भारःपुद्गलनिचयो यस्याः-सेषवाग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाया महाप्रारभाराः, अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, तथाहि॥१॥ “पढमाऽसीइसहस्सा बत्तीसा अट्ठवीस वीसा य । अट्ठार सोलसय अठ्ठ सहस्स लक्खोवरिंकुजा" इति, विष्कम्भस्तुतासांक्रमेणैकाद्याः सप्तान्ता रज्जव इति,अथवेषप्राग्भारामनागवनंतत्वादिति मू. (१५७) तओ समुद्दा पगईए उदगरसेणं पं० २०-कालोदे पुक्खरोदे सयंभुरमणे ३, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं० त०-लवणे कालोदे सयंभुरमणे वृ. प्रकृत्या-स्वभावेनोदकरसेन युक्ताइति, क्रोणचैतेद्वितीयतृतीयान्तिमाः।प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं च॥१॥ "लवणे उदगरसेसुयमहोरया मच्छकच्छहा भणिया। अप्पा सेसेसु भवे न य ते निम्मच्छया भणिया" ॥२॥ अन्यच्च-“लवणे कालसमुद्दे सयंभुरमणे यहोति मच्छा उ । अवसेस समुद्देसुंन हुंतिमच्छा न मयरा वा ॥३॥ नस्थित्ति पउरभावं पडुच्च न उसव्वमच्छपडिसेहो अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया" इति। क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह मू. (१५८) तओ लोगे निस्सीला निव्वता निग्गुणा निम्मेरा निप्पञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे नरए नेरइयत्ताए उववजंति, तं०रायाणो मंडलीयाजेय महारंभा कोडंबी। तओलोएसुसीला सुव्वयासग्गुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy