________________
स्थान-३, - उद्देशकः -१
१३७ इति, अथवा भ्रान्तः-अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान् ऐश्वर्ययुक्त इति, आह च॥१॥ "अहवा भंतोऽपेओजं मिच्छत्ताइबंधहेऊओ।
अहवेसरियाइ भगो विज्जइ सो तेण भगवंतो" इति, भवस्यवा-संसारस्यभयस्यवा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाद्भवान्तोभयान्तो वेति, उक्तंच॥१॥ 'नेरइयाइभवस्स व अंतोजं तेण सो भवंतोत्ति।
अहवा भयस्स अंतो होइ भवं तो भयंतासो" त्ति, इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थं भंतेत्ति पदं साधनीयमिति, अतो 'भंते'त्ति महावीरमामन्त्रयन्नुक्तवान् गौतमादिः 'शालीनां'कलमादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा' यवविशेषा एव, ‘एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोष्ठे-कुशूले आगुप्तानि-प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं पल्यंवंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरिस्थापितवंशकटकादिमयोजनप्रतीत; मालको-गृहस्यो- परितनभागः, अभिहितं च-"अक्कुड्डो होइ मंचो मालो य घरोवरि होइ"त्ति, 'ओलित्ताणं'तिद्वारदेशे पिधानेन सहगोमयादिनाअवलिप्तानां लित्ताणं तिसर्वतः ‘लंछियाणं'ति रेखादिभिः कृतलाञ्छनानां 'मुद्दियाणं' ति मृत्तिकादिमुद्रावतां 'पिहियाणं'ति स्थगितानां, 'केवतिय'ति कियन्तं कालं योनिर्यस्या-मङ्कुर उत्पद्यते?, ततः परं योनिःप्रम्लायति-वर्णादिना हीयतेप्रविध्वस्यते-विध्वंसाभिमुखाभवति 'विध्वस्यते' क्षीयते, एवंचतद्वीजमबीजंभवतिउप्तमपि नाङ्कुरमुत्पादयति, किमुक्तंभवति? -ततःपरंयोनिव्यवच्छेदःप्रज्ञप्तोमयाऽन्यैश्च केवलिभिरिति, शेषं स्पष्टम् ॥
स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह
मू. (१५४) दोच्चाए णं सक्करप्पभाए पुढवीए नेरइयाणं उक्कोसेणं तिन्नि सागरोवमाई ठिती पं० १, तच्चाएणं वालुयप्पभाए पुढवीएजहन्नेणं नेरइयाणं तिन्नि सागरोवमाइंठिती प०२
वृ. 'दोच्चे'त्यादिस्फुटं, नवरंद्वितीयायांपृथिव्यां, किंनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः॥१॥ __“सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा।
तेत्तीसंजाव ठिई सत्तसु पुढवीसु उक्कोसा ॥२॥ जा पढमाए जेट्टा सा बिइयाए कणिट्ठिया भणिया ।
तरतमजोगो एसो दसवाससहस्स रयणाए" इति। नरकपृथिव्याधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह
मू. (१५५) पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसु नेरइयाणं उसिणवेयणा पन्नत्ता तं०- पढमाए दोच्चाए तच्चाए, तिसुणं पुढवीसु नेरइया उसिणवेयणं पञ्चणुभवमाणा विहरंति-पढमाए दोच्चाए तच्चाए। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org