________________
स्थानाङ्ग सूत्रम् ३/१/१४७ सम्बन्धिभेदात्त्रिधेति, तत्र मनसः प्रणिधानं मनः प्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावादित्यत वोक्तम्- 'एवं पञ्चेदिये'त्यादीति । प्रणिधानं हिं शुभाशुभभेदमथ शुभमाह-'तिविहे' इत्यादि सामान्यसूत्रं १, विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह- 'संजयेत्यादि २, (दुष्टं) प्रणिधानं दुष्प्रणिधानम्-अशुभमनः प्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३ । जीवपर्यायाधिकारात्
मू. (१४८) तिविहा जोणी पं० तं०-सीता उसिणा सीओसिणा, एवं एगिंदियाणं विंगलिदियाणं तेउकाइवज्जाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य । तिविहा जोणी पं० तं०-सचित्ता अचित्ता मीसिया, एवं एगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाणं सं मुच्छिममणुस्साण य ।
तिविधा जोणी पं० तं०-संवुडा वियडा संवुडवियडा । तिविहा जोणी पं० तं०-कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिविहा उत्तमपुरिसा गब्भं वक्क मंति, तं०-अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्क मंति विउक्क मंति चयंति उववज्रंति नो चेव णं निष्फज्जुंति, वंसीपत्तिता णं जोणी पिहज्जणस्स, वंसीपत्तिताए णं जोणीए बहवे पिहजणे गब्भं वक्कमंति
१३४
वृ. 'तिविहेत्यादिना गमं वक्मंती' त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह-, तत्र युवन्तितैजसकार्मणशरीररवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः - जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, ' एवं 'ति यथा सामान्यतस्त्रिविधा तथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदे च सम्मूर्च्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आह
119 11
"सीओसिणजोणीया सव्वे देवा य गब्भवती ।
उसिणा य तेउका दुह निरए तिविह सेसाणं " इति ॥
अन्यथा योनित्रैविध्यमाह - 'तिविहे 'त्यादि कण्ठ्यं, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्तम्
119 11
"अचित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसाय गब्भवसही तिविहा जोणी य सेसाणं " इति,
पुनरन्यथा तामाह - 'तिविहे 'त्यादि, संवृता सङ्कटा घटिकालयवत् विवृता-विपरीता संवतविवृता तूभयरूपेति, एतद्विभागोऽयं
119 11
“एगिंदियनेरइया संवुडजोणी हवंति देवा य ।
विगलिंदियाण विगडा संवुडवियडा य गव्यंमि त्ति"
'कुम्मुन्नये' त्यादि कण्ठ्यं, नवरं कूर्म्मः - कच्छपः तद्वदुन्नता कूम्र्मोन्नता, शङ्खस्येवावर्त्तो यस्यां सा शङ्खावर्त्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, 'गब्मं वक्कमंति' त्ति गर्भे उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, 'बहवे' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org