________________
स्थानं - ३ - उद्देशकः -१
उक्तं तिर्यग्विशेषाणां त्रैविध्यभिदानीं स्त्रीपुरुषनपुंसकानां तदाह
मू. (१३८) एवं चैव तिविहा इत्थीओ पं० तं० - तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ१, तिरिक्खजोणीओ इत्यीओ तिविहाओ पं० जलचरीओ थलचरीओ खहचरीओ३ मणुस्सित्थीओतिविहाओ, पं० त०-कम्मभूमिआओ अकम्मभूमियाओ अंतरदीविगाओ ३, तिविहा पुरिसा पं० तं० - तिरिक्खजोणीपुरिसा मणुस्सपुरिसा देवपुरिसा १, तिरिक्खजोणिपुरिसा तिविहा पं० तं०- जलचरा थलचरा खेचरा २,
१२७
मस्सपुरिसा तिविहा पं० तं० - कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा / तिविहा नपुंसगा पं० तं० - नेरतियनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सनपुंसगा १, तिरिक्खजोणियनपुंसगा तिविहा पं० तं० - जलयरा थलयरा खहयरा २, मणुस्सनपुंसगा तिविधा पं० तं० - कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा ।, ।
बृ. 'तिविहे 'त्यादि नवसूत्री सुगमा, नवरं 'खहं' ति प्राकृतत्वेन खम् - आकाशमिति, कृष्यादिकर्म्मप्रधाना भूमिः कर्म्मभूमिः भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः ॥
मू. (१३९) तिविहा तिरिक्खजोणिया पं० तं० इत्थी पुरिसा नपुंसगा ।
वृ. विशेष (तः ) त्रैविध्यमुकत्वा सामान्यतस्तिरश्चां तदाह- 'तिविहे 'त्यादि, कण्ठ्यम् । स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तन्निबन्धनकर्म्मकारणत्वात्तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह
मू. (१४०) नेरइयाणं तओ लेसाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा १, असुर कुमाराणं तओ लेसाओ संकिलिट्ठाओ पं०, तं०- कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११, एवं पुढविकाइयाणं १२ आउवणस्सतिकाइयाणवि १३-१४ तेउकाइयाणं १५ वाउकाइयाणं १६ बेदियाणं १७ तेदियाणं १८ चउरिदिआणवि १९ तओ लेस्सा जहा नेरइयाणं,
पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ पं० तं० तेउलेसा सुक्क लेसा २१, एवं मणुस्साणवि २२, वाणमंतराणं जहा असुरकुमाराणं २३, वेमाणियाणं तओ लेस्साओ पं० तं० तेउलेसा पम्हलेसा सुक्क लेसा २४
वृ. 'नेरइयाण' मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं 'नेरइयाणं तओ लेस्साओ' त्ति एतासामेव तिसृणां सद्भावादविशेषणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सङ्गिक्लष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह'एवं पुढवी'त्यादि, पृथिव्यब्वनस्पतिषु देवोत्पदसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्द्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तदभावान्निर्विशेषण इत्यत
एवाह
'ओ' इत्यादि, पञ्चेन्द्रियातिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणत
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org