________________
१२६
स्थानाङ्ग सूत्रम् ३/१/१३६ भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, सच स्त्रीपुंनपुंसकसम्बन्धिषुत्रिष्वपि लिङ्गेषु भवतीति, तथा पुरुषचिह्नः-श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्नयते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः-शब्दः स एव पुरुषः पुंल्लिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च॥२॥ “अभिलावो पुंल्लिंगाभिहाणमेत्तां घडो व चिंधेउ।
पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा वेयपुरिसो तिलिंगोऽविपुरिसो वेदानुभूइकालम्मि"॥इति, 'धम्मपुरिस'त्ति-धर्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं च"धम्मपुरिसो तयज्जणवावारपरो जह सुसाहू"इति, भोगाः-मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः १, आह च-"भोगपुरिसो समज्जियविसयसुहो चक्वट्टिव्व" इति, कर्माणिमहारम्भादिसम्पाद्यानिनरकायुष्कादीनीति, उग्रा-भगवतोनाभेयस्यराज्यकालेयेआरक्षकाआसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम्॥१॥ “उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा।
आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ" इति, तद्वंशजा अपि तत्तदव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा-दासीपुत्रादयः भृतकाः-मूल्यतः कर्मकराः ‘भाइल्लग'त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति॥
उक्तंमनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चांजलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे' त्यादि सूत्रादशभिस्तदाह
मू. (१३७) तिविहामच्छापं० तं०-अंड्या पोअया संमुच्छिमा १, अंडगा मच्छा तिविहा पं० २०-इत्थि पुरिसा नपुसंगा २, पोतया मच्छा तिविहा पं० तं०- इत्थी पुरिसा नपुंसगा ३, तिविहा पक्खी पं० तं०-अंड्या पोअया संमुच्छिमा १, अंडया पक्खी तिविहा पं० तं०-इत्थी पुरिसा नपुंसगा २, पोतजा पक्खीतिविहा पं०तं०-इत्थी पुरिसानपुंसगा। एवमेतेणंअभिलावणं उरपरिसप्पावि/भाणियव्वा, भुजपरिसप्पावि.,भाणियव्वा९ ।
घृ.सुगमानि चैतानि, नवरंअण्डाजाताअण्डजाः, पोतं-वस्त्रंतद्वजरायुर्वर्जितत्वाजाताः, पोतादिववा-बोहित्याजाताः पोतजाः, सम्मूर्छिमाअगर्भजा इत्यर्थः, सम्मूर्छिमानांस्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रेनदर्शित इति।पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः,सम्मूर्छिमाःखअनकादयः, उद्मिजत्वेऽपितेषांसम्मूर्छजत्वव्यपदेशोभवत्येव,उद्भिज्जादीनां सम्मूर्छनजविशेषत्वादिति, एव'मितिपक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन 'तिविहाउरपरिसप्पे'त्यादि सूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरःपरिसप्पाः-सपादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां-बाहुभ्यां परिसर्पन्तियेते तथा नकुलादयस्तेऽपि भणितव्याः, एवं चेव'त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org