________________
१२५
स्थानं-३, - उद्देशकः -१ ॥१॥ “पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम्।
पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः" इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थं त्रिधाऽपि गर्हते, अथवाचतुथ्यर्थे षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानिजुगुप्सत इत्यर्थः, किमर्थम्? -अकरणतायै-मा कार्षमहमेतानीति, 'दीहंऽपेगेअद्धं'तिदीर्घकालं यावत्, तथाकायमप्येकः प्रतिसंहरति-निरुणद्धि, कया?-पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेनतदकरणतायैवातेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्यः, अकरणतायैतेषामेवेति॥अतीते दण्डेगर्दा भवति, साचोक्ता, भविष्यतिचप्रत्याख्यानमिति सूत्रद्वयेन तदाह
'तिविहे' त्यादि गतार्थं, नवरं 'गरिह'त्ति गर्हायां, आलापकौ चेमौ मणसे'त्यादि, 'कायसा वेगे पञ्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, 'अहवा' ___पच्चक्खाणे तिविहे पं० तं०-दीहंपेगेअद्धं पञ्चक्खाइरहस्संपेगेअद्धं पन्चक्खाइ कायंपेगे पडिसाहरइपावाणंकम्माणंअकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरतिपापकर्माकरणाय अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति ॥
__ पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दार्शन्तिकानां च पुरुषाणां प्ररूपणार्थमाह
मू. (१३६)ततो रुक्खापं० २०-पत्तोवतेफलोवतेपुप्फोवते १ एवामेवतओपुरिसजाता पं०२०-पत्तोवारुक्खसामाण पुप्फोवारुक्खसामाणा फलोवारुक्खसामाणा २, ततोपुरिसज्जायां पं० २०-नामपुरिसे ठवणपुरिसे दव्वपुरिसे ३, तओ पुरिसज्जाया पं० तं०-नाणपुरिसे दंसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसजाया पं० तं०-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५,
तिविहापुरिसजाया पं० तं०-उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा ६, उत्तमपुरिसा तिविहा पं०२०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसाअरिहंता भोगपुरिसा चक्क वट्टी कम्मपुरीसा वासुदेवा७, मज्झिमपुरिसा तिविहा पं० तं०-उग्गा भोगा रायन्ना ८, जहन्नपुरिसा तिविहा पं० २०-दोसा भयगा भातिल्लगा ९
वृ. 'तओ रूक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्राप्नोति पत्रोपगः, एवमितरौ, 'एवमेवे ति दार्शन्तिकोपननार्थः, पुरुषजातानि-पुरुषप्रकारायथा पत्रादियुक्तत्वेनोपकारमात्रविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च ‘पत्तोवग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, ‘समाणे' इत्यत्रापि च ‘सामाणे' इति ॥ अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-'तओ'इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्यगाथा - ॥१॥ “आगमओऽनुवउत्तो इयरो दव्वपुरिसो तिहा तइओ।
____एगभवियाइ तिविही मूलुत्तरनिम्मिओ वावि" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तुतदाकारवन्ति तान्येवेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org