SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ स्थानाङ्ग सूत्रम् ३/१/१३० देवीश्चाभियुज्याभियुज्य-आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति-परिभुकते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येवष्वपि तथा श्रवणात्, न चात्रार्थे नरमरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ? आत्मना विकृत्य विकृत्य परिचारणायोग्यं विधायेति तृतीयं, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहरेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्धिकदेवविशेषस्वामिकत्वादिति॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह मू. (१३१) तिविहे मेहुणे पं०२०-दिव्वे माणुस्सते तिरिक्खजोणीते, तओमेहुणं गच्छति तं०-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति तं०-इत्थी पुरिसा नपुंसगा। वृ. 'तिविहे मेहुणे' इत्यादि कण्ठ्यं, नवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुनं, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् ।। मिथुनकर्मण एव कारकानाह-'तओ' इत्यादिकण्ठ्यं, तेषामेव भेदानाह-'तओ मेहुण मित्यादि, कण्ठ्यं, नवरंस्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः॥१॥ “योनि १ द्दुत्व २ मस्थैर्य ३स, मुग्धत्वं ४ क्लीबता ५ स्तनौ ६ । ___पुंस्कामितेति ७ लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥२॥ मेहनं १ खरता २ दाढ्य ३, शौण्डीर्यं ४ श्मश्रु ५ धृष्टता ६। स्त्रीकामिते ७ति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥३॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् " -तथाऽन्यत्राप्युक्तम्॥१॥ “स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च, तदभावे नपुंसकम्" इत्यादि ॥ एते च योगवन्तो भवन्तीति योगप्ररूपणायाह मू. (१३२) तिविहे जोगे पं० तं०-मणजोगे वतिजोगे कायजोगे, एवं नेरतिताणं विगलिंदियवजाणंजाव वेमाणियाणं, तिविहे पओगे पं० २०-मणपओगे वतिपओगेकायपओगे, जहा जोगो विगलिंदियवजाणं तधा पओगोऽवि, तिविहे करणे पं०, तं०-मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजंजाववेमाणियाणं, तिविहे करणे पं० तं०-आरंभकरणे संरंभकरणे समारंभकरणेस निरंतरंजाव वेमाणियाणं वृ. 'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः, आह च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy