________________
स्थानं - ३ - उद्देशक: -१
॥१॥
"जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा । सत्ती सामत्यंति य जोगस्स हवंति पज्जाया'
""
इति, स च द्विधा-सकरणोऽकरणश्च तत्रलेश्यस्य केवलिनः कृतस्नयोर्ज्ञेयध्श्योरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिधो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'कम्मं जोगनिमित्तं बज्झइ' त्ति वचनात् युङ्कते प्रयुङ्कते यं पर्यायं स योगोवीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च
119 11
“मणसा वयसा कारण वावि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ
ओजोगेण जहा रत्तत्ताई घडस्स परिणामो । जीवकरणप्पओए विरियमवि तहप्पपरिणामो '
11
इति, मनसा करणेन युक्तस्य जीवस्य योगो वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः - औदारिकौ १ दारिकमिश्र २ वैक्रियत ३ विक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग ७ भेदादिति,
॥२॥
११९
तकत्रैौदारिकादयः शुद्धाः सुबोधाः, औदारिकमिश्रस्तु औदारिक एवापरिपूर्णो मिश्र उच्यते, यथा गुडमिश्रं दधिन गुडतया नापि दधितया व्यपदिश्यते तत्ताभ्यामपरिपूर्णत्वात्, एवमौदारिकं मिश्रं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रियाहारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवम्औदारिकाद्याः शुद्धासतत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन औदारिकशरीररिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते वेति, सर्व एवायं योगः पञ्चदशधेति, सङग्रहोऽस्य
11 9 11 “सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मनो वती चेवं ८ । काओ उराल १ विक्कि ३ आहारग ३ मीस ६ क्म्मइगो ७" इति ॥
सामान्येन योगं प्ररूप्य विशेषतो नारकादिषुचतुर्विंशती पदेषुतमतिदिशन्नाह- 'एव'मित्यादि, कण्ठ्यं, नवरतमतिप्रसङ्गपरिहारायेदमुक्तं "विगलिंदियवज्जाणं" ति तत्र विकलेन्द्रियाःअपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति मनःप्रभृतिसम्बन्धेनैवेदमाह
'तिविहेपओगे' इत्यादि, कण्ठ्यं, नवरं मनः प्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद्व्यापारणं-प्रयोजनं स प्रयोगः मनसः प्रयोगो मनःप्रयोग, एवमितरावपि, ' जहे' त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org