SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३, - उद्देशकः - १ तदनन्तरं तस्यैव केशादिरचनं च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषां चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह मू. (१२९) तिविहा नेरइया पन्नत्ता तं०- कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवज्जा जाव वेमाणिया वृ. 'तिविहे 'त्यादि, कण्ठ्यम्, नवरं 'कती' त्यनेन सङ्ख्यावाचिना द्वयादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावचकतया रूढोऽपीए सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति-कति सङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः कत्युत्पत्तिसाधर्म्या बुध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति न सङ्ख्याता इत्यकति- असङ्ख्याता अनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताः असङ्ख्याता एकैकसमये उत्पन्ना सन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्घयेयान्ताः उक्तं च 119 11 ११७ " “एगो व दो व तिन्नि व संखमसंखा व एगसमएणं । उववज्जंतेवइया उव्वहंता वि एमेव " इति, ॥२॥ एतद्देवपरिमाणमेतदेव नारकारणामपि, यत उक्तम्- "संखा पुण सुरवरतुल्ल "त्ति, कतिसञ्चितादिकमर्थमसुरादीना दण्डकोक्तानामतिदिशन्नाह - 'एव' मित्यादि, 'एव' मिति नारकवच्छेषाश्चतुर्विंशतिदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च“अनुसमयमसंखेज्जा संखेज्जाऊयतिरियमणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥१॥ एगो असंखभागो वट्ट उब्वट्टणोववायंमि । एगानिगोए निच्चं एवं सेसेसुवि स एव " इति । अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना देवानां सामान्येन परिचारणाधर्मनिरूपणायाह मू. (१३०) तिविहा परियारणा पं० तं०- एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिजुंजिय २ परियारेति, अप्पनिजिआओ देवीओ अभिजुंजिय २ परियारेति, अप्पाणमेव अप्पणा विउव्विय २ परियारेति १, एगे देवे नो अन्ने देवा नो अन्नसिं देवाणं देवीओ अभिजुंजिय २ परियारेति अत्तनिज्जिआओ देवीओ अभिजुंजिय २ परियारेइ अप्पाणमेव अप्पणा विउव्विय २ परियारेति २, एगे देवे नो अन्ने देवा अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परितारेति नो अप्पनिज्जिताओ देवीओ अभिर्जुजिय २ परितारेति अप्पाणमेव अप्पाणं विउच्चिय २ परितारेति ३, । बृ. 'तिविहा परी' त्यादि, कण्ठ्यम्, नवरं परिचारणा- देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किम् ? - 'अन्ने देवे' त्ति अन्यान् देवान्- अल्पर्द्धिकान् तथाऽन्येषां देवीनां सत्का Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy