________________
११६
स्थानाङ्ग सूत्रम् ३/१/१२७ फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात्न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च॥१॥ “आगारोऽभिप्पाओ बुद्धी किरियाफलंच पाएणं।
जह दीसइ ठवणिंदे न तहा नामे न दव्विदे " इति, यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च॥१॥ "भावस्स कारणंजह दव्वं भावो यतस्स पज्जाओ।
उवओगपरिणतिमओ न तहा नामंन वा ठवणा" इति। उक्तानामस्थापनाद्रव्येन्द्राः, इदानींभावेन्द्रंत्रिस्थानकावतारेणाह-'तओइंदे' त्यादिकण्ठयं, नवरंज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः-परमेश्वरोज्ञानेन्द्रः-अतिशयवच्छ्रुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः-क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो-यथाऽऽख्यातचारित्रः, एतेषां च भावेन-सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतःपरमार्थतोवेन्द्रत्वात्-सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद्भावेन्द्राऽवसेयेति
उक्तामाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह-'तओ इंदे'त्यादि, भावितार्थं, नवरंदेवा-वैमानिकाज्योतिष्कवैमानिकावारूढेः असुराः-भवनपतिविशेषा भवनपतिव्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रः-चक्रवादिरिति॥
त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाह
मू. (१२८)तिविहा विउव्वणा पं० २०-बाहिरते पोग्गलए परियातित्ताएगा विकुव्वणा बाहिरएपोग्गले अपरियादित्ताएगा विकुव्वणा बाहिरए पोग्गलेपरियादित्ताविअप्परियादित्तावि एगा विकुव्वणा, तिविहा विकुव्वणा पं० तं०-अब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा अब्भंतरे पोग्गलेअपरियादित्ताएगा विकुव्वणाअब्भंतरएपोग्गले परियातित्ताविअपरितादित्तावि एगा विकुव्वणा, तिविहा विकुब्वणापं० २०-बाहिरब्भंतरएपोग्गले परियाइत्ता एगा विकुव्वणा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा बाहिरब्अंतरए पोग्गले परियाइत्तावि अपरियाइत्ताविएगा विउव्वणा।
वृ. 'तिविहे'त्यादि सूत्रत्रयी कण्ठ्या , नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्तिनो वैक्रियसमुद्घातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापिअपर्यादायापि इति तृतीया व्यपदिश्यते, ___अथवा विकुर्वणा-भूषाकरणं, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलाससादीनां रक्तत्वफणादिकरणलक्षणेति।
एवंद्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेणवाशरीरेणयेक्षेत्रप्रदेशा अवगाढास्तेष्वेवयेवर्तन्तेतेऽवसेयाः, विभूषापक्षेतुनिष्ठीवनादयोऽभ्यन्तरपुद्गलाइति ।तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org