SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्थानं-३, - उद्देशकः-१ ११५ ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृतः, आगमतोऽनुपयुक्तद्रव्येन्द्रवत्, तथा यच्छीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत्, तथायो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तोद्रव्येन्द्रः, भव्यशरीरद्रव्येन्द्रवत्, सचावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रन्ते भावी एकभविकोयोऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकु दिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स, एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेतिबद्धायुरुच्यते, सचोत्कर्षतः पूर्वकोटीत्रिभागंयावद्, अस्मात्परतः आयुष्कबन्धाभावात्, तथाअभिमुखे-संमुखेजघन्योत्कर्षाभ्यांसमयान्तर्मुहूर्तानन्तरभावितया नामगोत्रेइन्द्रसबन्धिनी यस्य स तथा, तथा भावेश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाअप्रधानत्वाच्छनादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति, भावेन्द्रस्त्विह त्रिस्थानकानुरोधानोक्तः, तल्लक्षणं चेदम्-भावम्-इन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्रइन्दनपरिणामेनन वा भवतीतिभावःसचासाविन्द्रश्चेतिभावेन्द्रः, यदाह॥१॥ “भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः। सर्वज्ञैरिन्द्रादिवदिहेन्द-नादिक्रियानुभवात्" स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः, कथमिन्द्रोपयोगमात्रात्तन्मयताऽवगम्यते?,नह्यग्निज्ञानोपयुक्तोमाणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादितिचेतन,अभिप्रायापरिज्ञानात, संवित ज्ञानमवगमो भाव इत्यनान्तरम्, तत्र ‘अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं?, घटः, किमयमाह ?, घटशब्दं, किमस्य ज्ञानं?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत्पुरुषान्तरवद्वा, नचानाकारंतत्, पदार्थान्तरवद्विपक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाधभावश्चज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, नचानलः सर्वएवदहनाद्यर्थक्रिया प्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, -नोआगमतो भावेन्द्र इन्द्रनामगात्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वानोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रुव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव चविवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपोयः परिणामःसनागम एव केवलोनचानागम इत्यततो मिश्रवचनत्वात् नोशब्दस्य नोआगमत इत्याख्यायत इति । ननु नामस्थापनाद्रव्येष्वन्द्राभिधानं विवक्षितभावशून्यत्वाद्रव्यत्वंचसमानंवर्तते, ततश्च क एषां विशेषः?, आह च॥१॥ "अभिहाणं दव्वत्तं तदत्थसुन्नत्तणंच तुल्लाई। को भाववज्जियाणं नामाईणं पइविसेसो?" इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy