________________
स्थानं - २, - उद्देशकः -४
तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच तीर्थकराः, तीर्थं च प्रवचनमतः
प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह
—
१११
मू. (११७) सच्चप्पवायुपुव्वस्सं णं दुवे वत्थू पं० ।
वृ. 'सच्चप्पवाये' त्यादि, सद्यो - जीवेभ्यो हितः सत्य- संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षेणोद्यते-अभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्वं च सकल श्रुतात्पूर्वं क्रियमाणत्वादिति सत्यप्रवादपूर्वं तच्च षष्ठं, तत्परिमाणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु चतद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह -
मू. (११८) पुव्वाभद्दवयानक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयानक्रवत्ते दुतारे पन्नते, एवं पुव्वफग्गुणी उत्तराफग्गुणी ।
वृ. 'पुव्वे' त्यादि कण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपं सूत्रत्रयेणाह - ''उत्तरे' त्यादि कण्ठ्यम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह -
मू. (११९) अंतो णं मणुस्सखेत्तस्स दो समुद्दा पं० तं० - लवणे चेव कालोदे चेव । वृ. 'अंतोण' मित्यादि, अन्तः मध्ये 'मनुष्य क्षेत्रस्य' मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेषं कण्ठ्यामिति । मनुष्यक्षेत्रप्रस्तावाद्भरत क्षेत्रोत्पनोत्तपमपुरुषाणां नरकगामितया द्विस्थानकावतरामाह -
मू. (१२०) दो चक्कवट्टी अपरिचत्तकामभोग कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे नरए नेरइतत्ताए उव्ववन्ना तं० - सुभूमे चेव बंभदत्ते चेव ।
वृ. 'दोचक्कवट्टी 'त्यादि, द्वीचक्रेण - रत्नभूतप्रहरणविशेषेण वर्त्तितुं शीलं ययोस्तौ चक्रवर्त्तिनी, ‘कामभोग’त्तिकामौ च-शब्दरूपे भोगाश्चगन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति कामा मनोज्ञा इत्यर्थः ते च ते भुज्यन्त इति भोगाश्च शब्दादय इति कामभोगा न परित्यक्तास्ते यकाभ्यां तौ तथा 'कालमासे' त्ति कालस्य-मरणस्य मासः उपलक्षणं चैतत्पक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसर इति भावः, ‘कालं मरणं कृत्वा अधः सप्तम्यां पृथिव्यां तमस्तमायामित्यर्थः अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमाना रत्नप्रभाऽपि स्यादित्यधोग्रहणं अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोत्पन्न, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति ।
Jain Education International
नारकाणांचासङ्घयेयकालऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तांदर्शयन् पञ्चसूत्रीमाह मू. (१२१) असुरिंदवज्जियाणं भवनवासीणं देवाणं देसूणाई दो पलिओवमाइं ठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्केसेणं दो सागरोवमाइंठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाइं दोसागरोवमाइं ठिती पन्नत्ता, सनंकुमारे कप्पे देवाणं जहन्त्रेणं दो सागरोवमाइं ठिती पत्रत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाइं ठिती पन्नत्ता ।
बृ. 'असुरे' त्यादि, असुरेन्द्रौ चमरबली तद्वर्जितानां (तत्सामनिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिशादीनामसुराणां तदन्येषांच) भवनवासिनां देवानामुत्कर्षतद्वे पल्योपमे किञ्चिदूने स्थितिः प्रज्ञप्ता,
For Private & Personal Use Only
www.jainelibrary.org