________________
११०
स्थानाङ्ग सूत्रम् २/४/११३
पडुपन्नविणासिए चेव ' त्ति प्रत्युत्पन्नं वर्त्तमानलब्धं वस्तित्वत्यर्थो विनाशितम्-उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्वेवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम्, अन्यच्च पिधत्ते च-निरुणद्धि च आगामिनो - लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचि आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाष्टविधं कर्म मूर्च्छाजन्यमिति मूर्च्छास्वरूपमाह -
मू. (११४) दुविहा मुच्छा पं० तं० - पेज्जवत्तिता चेव दोसवत्तिता चेव, पेज्जवत्तिया मुच्छा दुविहा पं० - माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा पं० - कोहे चेव माने चेव ।
वृ. 'दुविहे 'त्यादि सूत्रत्रयं कण्ठयं, नवरं मूर्च्छा-मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिःवर्तनं रूपं प्रत्ययो वा हेतु- र्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति मूर्च्छापात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह -
भू. (११५) दुविहा आराहणा पं० तं० - धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० तं०- सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलि आराहणा दुविहा पं० तं०, अंतकिरिया चैव कप्पविमाणोववत्तिआ चेव ।
वृ. 'दुविहे 'त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरं आराधनमाराधना-ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः साधवस्तेषामियं धार्मिकी सा चासावाराधना च धार्मिकाराधना, केवलिनां श्रुतावधिमनः पर्यायकेवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मे' त्यादौ विषयभेदेनाराधनाभेद उक्तः, ‘केवलिआराहणे’त्यादौ तु फलभेदेनेति, तत्र अन्तो भवान्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात्, एषा च क्षायिकज्ञाने केवलिनामेव भवति ।
तथा 'कल्पेषु' देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः अथवा कल्पाश्चसौधर्मादयो विमानानि च तदुपरिवर्त्तिग्रैवेयकादीनि कल्पविमानानि तेषूपपत्तिः उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता परम्परया तु भवान्तक्रियाऽनुपातिन्येवेति । ज्ञानाद्याराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यक्कृ ता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह
मू. (११६) दो तित्थगरा नीलुप्पलसमा वन्नेणं पं० तं० - मुनिसुव्वए चेव अरिट्ठनेमि चेव, दो तित्थयरा पियंगुसामा वन्त्रेणं पं० तं० - मल्ली चेव पासे चेव, दो तित्थयरा पउमगोरा वन्नेणं पं० तं० - पउमप्पहे चेव वासुपुजे चेव, दो तित्थगरा चंदगोरा वन्त्रेणं पं० तं० - चंदप्पभे चैव पुष्पदंते चैव ।
बृ. 'दो तित्थयरे' त्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं पद्मरक्तोत्पलं तद्वद् गौरी पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरी चन्द्रशुक्लावित्यर्थः, गाथाऽत्र -
11911
Jain Education International
"पउमाभवासुपुजा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमि काला पासो म्ली पियंगाभा ॥” इति,
For Private & Personal Use Only
www.jainelibrary.org