________________
१०४
स्थानाङ्ग सूत्रम् २/४/१०८ प्राय उभयदर्शनया त्रयोदशसूत्रीमाह - 'दुविहा सव्वे' त्यादिकं, कण्ठ्या चेयं, नवरं सेन्द्रियाःसंसारिणोऽनिन्द्रियाः- अपर्याप्तककेवलिसिद्धाः २ 'एवं एस' त्ति, 'एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सव्वजीवे’त्यादिलक्षणेन एषा वक्ष्यमाणा प्रस्तुतसूत्रसङ्ग्रगाथा स्पर्शनीया अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अथ एवाह- 'जाव ससरीरी चेव असरीरी चेव' त्ति ।
मू. (१०९)
'सिद्धसइंदियकाए जोगे वेए कसाय लेसा य । नाणुवओगाहारे भासग चरिमे य ससरीरी ॥
वृ. 'सिद्ध' गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए' त्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं- 'सकायञ्चेव अकायच्चेव' 'सकायाः' पृथिव्यादिषड्विधकायविशिष्टाः संसारिणः, अकायास्तद्-विलक्षणाः सिद्धाः ३, सयोगाः - संसारिणः अयोगा- अयोगिनाः सिद्धाश्च ४, 'वेदेत्ति सवेदाः - संसारिणः अवेदाःअनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, 'कसाय'ति, सकषायाः- सूक्ष्मसम्परायान्ताः अकषायाः-उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा य'त्ति सलेश्याः - सयोग्यन्ताः संसारिणः अलेश्याः-अयोगिनः सिद्धाश्च ७, 'नाणे' त्ति ज्ञानिनः- सम्यग्दृष्टयोऽज्ञानिनो - मिथ्यादृष्टयः, आहच 11911 "अविसेसिया मइ च्चिय सम्मद्दिट्ठिस्स सा मइन्नाणं ।
अन्नाणं मिच्छादिट्ठिस्स सुयंपि एमेव ॥" (इति)
अज्ञानता च मिथ्याष्टिबोधस्य सदतोरविशेषणात्, तथाहि - सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते - सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्था, इह तदसत्त्वं कथञ्चिदिति विशेषिवयं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तव्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयं यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं श्रृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि (वा) न सन्तीतितदेवं सदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्यथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च
-
119 11 "जह दुव्वयणमवयणं कुच्छियसीलं असीलमसतीए । भण्णइ तह नापि हु मिच्छद्दिट्ठिस्स अन्नाणं ।।” (इति)
तथा मिथ्याध्ष्टेरध्यवसायो न ज्ञानं, भवहेतुत्वात्, मिथ्यात्वादिवत्, तथा यच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सक्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति,
आह च
11911
“सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ ।
नाणफलाभावाओ मिच्छादिट्ठिस्स अन्नाणं ।। " (इति) ८,
'उवओगि 'त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चैव त्ति सहाकारेण-विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org