________________
१०२
स्थानाङ्ग सूत्रम् २/४/१०२
वृ. 'दोही'त्यादि कण्ठयं, नवरं 'खएण चेव'त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्यक्षयेण-निर्जरणेनअनुदितस्यचोपशमेन-विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेज्जा मुंडे भवित्ता अगाराओअनगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिनिबोहियनाणमुप्पाडेजा इत्यादिश्यम्, एवंयावन्मनःपर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्त्रोक्तम् । इह च तद्यपि बोध्यादयः सम्यकत्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयोनातःस एव व्याख्यात इति। बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्दिवतयप्ररूपणामाह
मू. (१०३) दुविहे अद्धोवमिए पन्नत्ते तं०- पलिओवमे चेव सागरोवमे चेव, से किं तं पलिओवमे?, पलिओवमे
वृ. उपमा-औपम्यं, तया निवृत्तमौपमिकं अद्धा-कालस्तद्विषयमौपमिकमद्वौपमिकम्, 'उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्वौपमिकमिति भावः, तच्च द्विधा-पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकंसंव्यवहारसूक्ष्मभेदा द्विधा, तत्र संव्यवहारपल्योपमंनामयावताकालेन योजनायामविष्कम्भोच्चत्वः पल्योमुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषांदशभिःकोटीकोटीभिः व्यावहारिकमुद्धारसागरोपमुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्खयेयभागमात्रसूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च॥७॥
"उद्धारसागराणं अड्डाइजाण जत्तिया समया। _दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया ॥" (इति) ___अद्धापल्योपमसागरोपमे अपि सूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासङ्खयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरंप्रतिसमयमेकैकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशाउद्धियन्ते स कालो व्यावहारिक इति, यावताच वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोध्धियन्ते स कालः सूक्षक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृटप्रदेशविभागेन द्रव्यमाने प्रयोजनमितिश्रूयते, बादरेचत्रिविधेअपिप्ररूपणामात्रविषये एवेति,तदेवमिह प्रक्रोउद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धेतिविशेषणं सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः____'सेकिंत'मित्यादि, अथ किंतत्पल्योपमं?,यदद्धौपमिकतया निर्दिष्टमितिप्रश्ने निर्वचनमेतदनुवादेनाह - 'पलिओवमे'त्ति पल्योपममेवं भवतीति वाक्यशेषः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org