________________
स्थानं-२, - उद्देशकः-४
१०१ मू. (१०१) दोहिं ठाणेहिं आता सरीरं फुसित्ताणं निजाति, तं०-देसेणवि आता सरीरं फुसित्ताणं निजाति सव्वेणविआया सरीरगंफुसित्ताणं निजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निव्वट्टतित्ता
वृ. 'दोही'त्यादिकं कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवि'त्ति देशेनापिकतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात्, 'आत्मा' जीवः, 'शरीरं' देहं 'स्पृष्टा' श्लिष्टा निर्याति' शरीरान्मरणकाले निःसरतीति, 'सव्वेणवित्ति सर्वेण-सर्वात्मना सर्वैर्जीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षित्पत्वादिति, अथवादेशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं कोऽर्थः ? - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारान्निति, स च संसारी, 'सर्वेणापि' सर्वतयाऽपि, अपिर्देशनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, सच सिद्धो, वक्ष्यतिच-“पायनिजाणा निरएसु“उववजंती"त्यादि, यावत् “सव्वंगणिज्जाणासिद्धेसु"त्ति आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते
“एव'मित्यादि, “एव'मिति 'दोहिं ठाणेही त्याघभिलापसंसूचनार्थः, तत्र देशेनापि कियमिरप्यात्मप्रदेशैरिलिकागतिकाले सव्वेणवित्तिसर्वैरपिगेन्दुकगतिकाले शरीरं फुरित्ताणति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनिर्याणकाले, सर्वतः-सर्वंशरीरंस्फोरयित्वासर्वाङ्गनिर्याणावसर इति।स्फोरणाच्चसात्मकत्वं स्फुटं भवतीत्याह
__“एव'मित्यादि, ‘एव'मिति तथैव देशेन-आत्मदेशेन शरीरकं 'फुडित्ताणं तिसचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरकं देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवाफुडित्तास्फोटयित्वा विशूर्णं कृत्वा, तत्रदेशतोऽक्ष्यादिविघातेनसर्वतःसर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित्करोतीत्याह
‘एव'मित्यादि, एव'मिति तथैव संवट्टइत्ताणं'त्तिसंवर्त्य सङ्कोच्यशरीरकंदेशेनेलिकागती शरीरस्थितप्रदेशैःसर्वेण-सर्वात्मनागेन्दुकगतौसर्वात्मप्रदेशानांशरीरस्थितत्वानिर्यातीति, अथवा शरीरकं-शरीरणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्त्यहस्तादिसङ्कोचनेन सर्वतः-सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तन कुर्वन् शरीरस्य निवर्तनं करोतीत्याह
एव 'निव्वदृयित्ताणं'ति, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्कत्येत्यर्थः, तत्र देशेनेलिकागतौ सर्वेणगेन्दुकगतो, अथवादेशतः शरीरं निर्वात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्वाणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षयादेशतःशरीरम् औदारिकादि निवर्त्य तैजसकार्मणेत्यादायैव, तथा सर्वेण-सर्वंशरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः। अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शनयनाह
मू. (१०२) दोहिं ठाणेहिं आता केवलिपनत्तं धम्मं लभेजा सवणताते, तं-खतेण चेव उवसमेण चेव, एवंजाव मनपज्जवनाणं उप्पाडेजा तं०-खतेण चेव उवसमेणं चेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org