________________
१००
स्थानाङ्ग सूत्रम् २/४/१००
कम्मं बंधंति, तं०-रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेति, तं०अब्भोवगमिताते चेव वेतणाते उवक्क मिताते चेव वेयणाते, एवं वेदेति एवं निज्जरेति-अब्भोवगमिताते चेव वेयणाते उवक्क मिताते चेव वेयणाते
. प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह119 11 “माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् ।
क्रोधो मानश्च पुनर्देष इति समासनिर्दिष्टः "
इति, प्रेम्णः - प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकर्मपुद्गलराशेर्बन्धनं- जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थित्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, उक्तं हि - “जोगा पयडिपदेसं ठिति अनुभागं कसायओ कुणइ "त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह
'जीवाण' मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु बन्धत्वेन न विवक्षिनतो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम्, 119 11 (उक्तं च)- “अप्पं बायर मउयं बहुं च रुक्खं च सुक्लिं चेव । मंदं महव्वयं तिय सायाबहुलं च तं कम्मं " (इति),
अल्पं स्थित्या बादरं परिणामतः मृद्वनुभावतः बहु प्रदेशैः मन्दं लेपतो वासुकावत्, महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह
'जीवा ण' मित्यादि, जीवाः सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्या'; कारणाभ्यां पापम्-अशुभमशुभमवनिबन्धनत्वात्, न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति स्पृष्टाद्यवस्थां कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिध्यात्वाविरतिकषाययोगा बन्धहेतवः तत्कथं कषाया एव इहोक्ता इति ?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थ, प्राधान्यं च स्थित्यनुभागप्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च
119 11 “को दुक्खं पावेजा कस्स व सोक्खेहिं विम्हओ होज्जा ? । को वा न लहेज मोक्खं ? रागद्दोसा जइ न होज्जा" इति,
अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिनस्तथा सूत्रत्रयेणाह -
‘जीवे’त्यादि गतार्थम्, नवरंउदीरयन्ति- अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेनअङ्गीकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया - शिरोलोचतपश्चरणादिकया वेदनयापीडया उपक्रमेण-कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा औपक्रमिकी तया- ज्वरातीसारादिजन्यया, 'एव’मिति उक्तप्रकारत एव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितं सदिति, 'निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति । निर्झरणेच कर्मणो देशः सर्वथा वा भवान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org