________________
स्थानं-२, - उद्देशकः -४ प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमाः-वणिग्निवासाः राजाधान्यो-यासु राजानोऽभिषिच्यन्ते २ खेटानि-धूलिप्राकारोपेतानि कर्बटानि-कुनगराणि ३, मडम्बानि सर्वतोऽर्द्धयोजनात्परतोऽवस्थितग्रामाणि द्रोणमुखानियेषांजलस्थलपथावुभावपि स्तः ४ पत्तनानि येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा-लोहाद्युत्पत्तिभूमयः ५, आश्रमाः-तीर्थस्थानानि संवाहाः-समभूमौ कृषि कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीबलाः संवहन्ति रक्षार्थमिति ६,
सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि७,आरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति, उद्यानानि पत्रपुष्पफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं-गमनं येष्विति ८, बनानीत्येकजातीयवृक्षाणि वनखण्डाः-अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरा पुष्करिणी वृत्तापुष्करवती वेति १०, सरांसि-जलाशयविशेषाःसरःपङ्कतयः-सरसांपद्धतयः ११, अगड'त्ति अवटाः-कपाः, तडागादीनि प्रतीतानि १२,
पृथिवी-रत्नप्रभादिका उदधिः-तदधोघनोदधिः १४, वातस्कन्धाः-धनवाततनुवाता इतरे वा अवकाशान्तराणि-वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् १५, वलयानि-पृथिवीनां वेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति विग्रहा-लोकनाडीवमणि, जीवताचैषांपूर्ववत् १६, द्वीपाः समुद्राश्च प्रतीताः १७, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीताः १८, द्वाराणि-विजयादीनि तोरणानि तेश्वेवेति १९,
_ नैरयिकाः-क्लिष्टसत्त्वतिशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिका- वासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विंशतिदण्डकोऽभिधेयः ४३ अत एवाह-पाव'दित्यादि, कल्पाः-देवलोकास्तदंशाः कल्पविमानावासाः ४४, वर्षाणिभरतादिक्षेत्राणिवर्षधरपर्वताः-हिमवदादयः ४५, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि४६, विजयाः-चक्रवर्तिविजेतव्यानिकच्छादीनिक्षेत्रखण्डानि, राजधान्या:-क्षेमादिकाः, 'जीवे'त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ४७।।
येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह-'छाये'त्यादि सूत्रपञ्चकं गतार्थम्, नवरं छाया वृक्षादीनामातपः आदित्यस्य, ‘दोसिणाति वत्तिज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानिक्षेत्रादीनांप्रमाणानि हस्तादीनि उन्मानानि-तुलायाः कर्षादीनि, अतियानगृहाणि-नगरादिप्रवेशे यानिगृ-हाणि, उद्यानगृहाणिप्रतीतानि, अवलिंबासनिप्पवाया यरूढितोऽवसेया इति, किमेतत् सर्वमित्याह-जीवाइतिच, जीवव्याप्तत्वाततदाश्रितत्वाद्वा, अजीवाइतिच' पुद्गलाद्यजीवरूपत्वात् तदाश्रित्वाद्वेति, प्रोच्यते-जिनैः प्ररूप्यत इति । इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति।
अथ समयादिवस्तु जीवाजीवरूपमेव कस्मादभिधीयते ?, उच्यते तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-दो रासी'त्यादि कण्ठ्यम् । जीवराशिश्च द्विधा-बद्धमुक्तभेदात्, तत्र बद्धानांबन्धनिरूपणायाह
मू. (१००) दुविहे बंधे पं०, तं०-पेजबंधे चेव दोसबंधे चेव, जीवाणं दोहिं ठाणेहिं पावं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org