________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशकः - २ मू. (१८२) अहिमे सुहुमा संगा, भिक्खुणं जे दुरुत्तरा।
जत्थ एगे विसीयंति, न चयंति जवित्तए । वृ. 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाःप्रतिपाद्यन्त इत्यानन्तर्यार्थ, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्यक्षासन्नवाचित्वादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः' प्रायश्चेतोविका-रकारित्वेनान्तराः,नप्रतिकूलोपसर्गाइव बाहुल्येन शरीरविकारकारित्वेन प्रकटतया बादरा इति, ‘सङ्गा' मातापित्रादिसम्बन्धाः।
यएते 'भिक्षूणां साधूनामपि दुरुत्तरा' दुर्लङ्घया-दुरतिक्रमणीयाइति, प्रायोजीवितविघ्नकरैरपि प्रतिकूलोपसर्गरुदीनुध्यिस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते त्वनुकूलोपस[स्तानप्युपायेनधर्माच्चयावयन्ति, ततोऽमीदुरुत्तराइति, यत्र' येषूपसर्गेषुसत्सु एके' अल्पसत्त्वाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारित्वं भजन्ते सर्वथा वा-संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन ‘यापयितुं'-वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शकुवन्ति' समर्था भवन्तीति । मू. (१८३) अप्पेगे नायओ दिस्स, रोयंति परिवारिया।
पोसणे ताय! पुट्ठोऽसि, कस्स ताय! जहासिणे ॥ वृ.तानेवसूक्ष्मसङ्गान् दर्शयितुमाह-'अपि' संभावने 'एके' तथाविधा 'ज्ञातयः' स्वजना मातापित्रादयः प्रव्रजन्तंप्रव्रजितं वा 'दृष्टवा' उपलभ्य परिवार्य' वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च दीनं यथा-बाल्यात्प्रभृति त्वमस्माभि पोषितोवृद्धानांपालको भविष्यतीतिकृत्वा, ततोऽधुना 'नः' अस्मानपि त्वं 'तात !' पुत्र ‘पोषय' पालय, कस्य कृते-केन कारणेन कस्य वा बलेन तातास्मान् त्यजसि?, नास्माकं भवन्तमन्तरेण कश्चित्रातां विद्यत इति किञ्चमू. (१८४) पिया ते थेरओ तात!, ससा ते खुड्डिया इमा।
भायरो ते सगा तात!, सोयरा किं जहासिणे? ॥ वृ. हे 'तात !' पुत्र ! पिता 'ते' तव “स्थविरो' वृद्धः शतातीकः स्वसा' च भगिनी तव 'क्षुल्लिका' लध्वी अप्राप्तयौवना ‘इमा' पुरोवर्तिनी प्रत्यक्षेति, तथा भ्रातरः “ते' तव 'स्वका' निजास्तात ! “सोदरा' एकोदराः किमित्यस्मान् परित्यजसीति॥ मू. (१८५) मायरं पियरं पोस, एवं लोगो भविस्सति।
एवं खु लोइयं ताय!, जे पालंति य मायरं ।। वृ. तथा ‘मायरमि'त्यादि, मातरं' जननीं तथा 'पितरं जनयितारं 'पुषाण' बिभृहि, एवं चकृते तवेहलोकः परलोकश्च भविष्यति, तातेदमेव 'लौकिकं लोकाचीर्णम्, अयमेवलौकिकः पन्था यदुत-वृद्धयोर्मातापित्रोःप्रतिपालनमिति, तथा चोक्तम् - ॥१॥ "गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् ।
अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।।
-इति अपिचमू. (१८६) उत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डया।
भारिया ते नवा तात!, मा सा अन्नंजणं गमे । वृ. उत्तराः' प्रधानाः उत्तरोत्तरजाता वा मधुरो-मनोज्ञ उल्लापः-आलापोयेषांतेतथाविधाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org