________________
९४
सूत्रकृताङ्ग सूत्रम् १/३/१/१७८ येषामनार्याणां ते तथा, तथा मिथ्या - विपरीता संस्थिता - स्वाग्रहारूढा भावना - अन्तःकरणवृत्तिर्येषां ते मिथ्यासंस्थितभावना - मिथ्यात्वोपहतदृष्टय इत्यर्थः, हर्षश्च प्रद्वेषश्च हर्षप्रद्वेषं तदापन्ना रागद्वेषसमाकुला इतियावत्, त एवम्भूता अनार्या सदाचारं साधुं क्रिडया प्रद्वेषेण वा क्रूरकर्मकारित्वात् 'लूषयन्ति' कदर्थयन्ति दण्डादिभिर्वाग्भिर्वेति एतदेव दर्शयितुमाहमू. (१७९) अप्पेगे पलियंते सिं, चारो चोरोत्ति सुव्वयं । बंधति भिक्खुयं बाला, कसायवयणेहि य ॥
वृ. अपि संभावने, एके अनार्या आत्मदण्डसमाचारा मिथ्यात्वोपहतबुद्धयो रागद्वेषपरिगताः साधुं 'पलियंते सिं'ति अनार्यदेशपर्यन्ते वर्तमानं 'चारो' त्ति चरोऽयं 'चोरः' अयं स्तेन इत्येवं मत्वा सुव्रतं कदर्थयन्ति, तथाहि - 'बध्नन्ति' रज्वादिना संयमयन्ति 'भिक्षुकं' भिक्षणशीलं 'बाला' अज्ञाः सदसद्विवेकविकलाः तथा 'कषायवचनश्च' क्रोधप्रधानकटुकवचनैर्निर्भर्त्सयन्तीति ॥ पू. (१८०) तत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा । नातीणं सरती बाले, इत्थी वा कुद्धगामिणी ॥
वृ अपिच-‘तत्र' तस्मिन्ननार्यदेशपर्यन्ते वर्त्तमानः साधुरनार्यै 'दण्डेन' यष्टिना मुष्टिना वा 'संवीतः ' प्रहतोऽथवा 'फलेन वा' मातुलिङ्गादिना खङ्गादिना वा स साधुरेवं तैः कदर्थमानः कश्चिदपरिणतः 'बालः' अज्ञो 'ज्ञातीनां' स्वजनानां स्मरति, तद्यथा यद्यत्र मम कश्चित् सम्बन्धी स्यात् नाहमेवम्भूतां कदर्थनामवाप्नुयामिति, दृष्टान्तमाह-यथा स्त्री कुद्धा सती स्वगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरति एवमसावपीति ॥ मू. (१८१)
एते भो ! कसिणा फासा, फरुसा दुरहियासया । हत्थी वा संरसंवित्ता, कीवा वस गया गिहं ॥ त्तिबेमि ।
वृ. उपसंहारार्थमाह-भो इति शिष्यामन्त्रणं, य एत आदितः प्रभृति दंशमशकादयः पीडोत्पादकत्वेन परीषहा एवोपसर्गा अभिहिताः 'कृत्स्नाः' संपूर्णा बाहुल्येन स्पृश्यन्ते-स्पर्शेन्द्रियेणानुभूयन्त इति स्पर्शा, कथम्भूताः ? - 'परुषाः ' परुषैरनार्यै कृतत्वात् पीडाकारिणः, ते चाल्पसत्त्वैर्दुखेनाधिसह्यन्ते तांश्चासहमाना लघुप्रकृतयः केचना श्लाघामङ्गीकृत्य हस्तिन इव रणशिरसि
‘शरजालसंवीता' शरशताकुला भङ्गमुपयान्ति एवं 'क्लीबा' असमर्था 'अवशाः' परवशाः कर्मायत्ता गुरुकर्माणः पुनरपि गृहमेव गताः, पाठान्तरं वा 'तिव्वसड्ढे ' त्ति तीव्रैरुपसर्गेरभिद्रुताः ‘शठाः’ शठानुष्ठानाः संयमं परित्यज्य गृहं गताः, इति ब्रवीमीति पूर्ववत् ।
अध्ययनं-३ उद्देशकः-१ समाप्तः
-: अध्ययनं -३ उद्देशकः-२ :
वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते - अस्य चायमभिसम्बन्धः, इहोपसर्गपरिज्ञाध्ययने उपसर्गा प्रतिपिपादयिषिताः, ते चानुकूलाः प्रतिकूलाश्च तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org