________________
श्रुतस्कन्धः-१, अध्ययनं-३, उद्देशकः - १
वृ. किञ्च-अप्येके केचन कुसृतिप्रसृता अनार्या वाचं युअन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयोनग्नास्तथा 'पिंडोलग'त्ति परपिण्डप्रार्थका अधमाः-मलाविलत्वात् जुगुप्सिता 'मुण्डा' लुञ्चितशिरसः, तथा-कचित्कण्डूकृतक्षतै रेखाभिर्वा विनष्टाङ्गाविकृतशरीराः, अप्रतिकमशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः, तथोदतो जल्लः-शुष्कप्रस्वेदो येषां ते उज्जल्लाः, तथा 'असमाहिता' अशोभना बीभत्सा दुष्टा वा प्राणिनामसमाधिमुत्पादयन्तीति ।
साम्प्रतमेतद्माषकाणां विपाकदर्शनायाहमू. (१७५) एवं विप्पडिवन्नेगे, अप्पणा उ अजाणया ।
तमाओ ते तमंजंति, मंदा मोहेण पाउडा ।। वृ. 'एवम्' अनन्तरोक्तनीत्या 'एके' अपुण्यकर्माणो 'विप्रतिपन्नाः' साधुसन्मार्गद्वेषिणः 'आत्मना' स्वयमज्ञाः, तुशब्दादन्येषांचविवेकिनांवचनमकुर्वाणाः सन्तस्ते 'तमसः' अज्ञानरूपादुत्कृष्टं तमो यान्ति' गच्छन्ति, यदिवा-अधस्तादप्यधस्तनीं गतिं गच्छन्ति, यतो 'मन्दा' ज्ञानावरणीयेनावष्टब्धाः तथा मोहेन' मिथ्यादर्शनरूपेण 'प्रावृता' आच्छादिताः सन्तः खिङ्गप्रायाःसाधुविद्वेषितया कुमार्गगा भवन्ति, तथा चोक्तम् -
॥१॥ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिद्धितीयम् । __ एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ।। मू. (१७६) पुट्ठो य दंसमसएहि, तणफासमचाइया।
नमे दिढे परे लोए, जइ परं मरणं सिया॥ वृ. दंशमशकपरीषहमधिकृत्याह-क्वचित्सिन्धुताम्रलिप्तकोङ्कणादिके देशे अधिका दंशमशका भवन्ति तत्र च कदाचित्साधुः पर्यटस्तैः स्पृष्टश्च' भक्षितः तथा निष्किञ्चनत्वात् तृणेषु शयानस्तत्स्पर्श सोढुमशक्नुवन् आर्त्तः सन् एवं कदाचिच्चिन्तयेत्, तद्यथा
परलोकार्थमेतद्दुष्करमनुष्ठानं क्रियमाणं घटते, नचासौ मया परलोकः प्रत्यक्षेणोपलब्धः, अप्रत्यक्षत्वात्, नाप्यनुमानादिनोपलभ्यत इति, अतो यदि परं ममानेन क्लेशाभितापेन मरणं स्यात्, नान्यत्फलं किञ्चनेति । अपिचमू. (१७७) संतत्ता केसलोएणं, बंभचेरपराइया।
तत्थ मंदा विसीयंति, मच्छा विट्ठा व केयणे ।। वृ. समन्तात् तप्ताः सन्तप्ताः केशानां ‘लोच' उत्पाटनं तेन, तथाहि-सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते, तया चाल्पसत्त्वाःविस्रोतसिकांभजन्ते, तथा 'ब्रह्मचर्य' बस्तिनिरोधस्तेन च ‘पराजिताः पराभग्नाः सन्तः 'तत्र' तस्मिन् केशोत्पाटनेऽतिदुर्जयकामोद्रेके वासति मन्दा' जडा-लघुप्रकृतयो विषीदन्ति संयमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमाद् वा भ्रश्यन्ति, यथा मत्स्याः ‘केतने' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति, एवं तेऽपि वराकाः सर्वकषकामपराजिताः संयमजीवितात् भ्रश्यन्ति ।। मू. (१७८) आयदंडसमायारे, मिच्छासंठियभावना।
हरिसप्पओसमावन्ना, केई लूसंतिऽनारिया ॥ वृ.किञ्च-आत्मा दण्डयते-खण्डयतेहितात्भ्रश्यतेयेनस आत्मदण्डः ‘समाचारः' अनुष्ठानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org