SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ सूत्रकृताङ्ग सूत्रम् १/३/१/१७० ॥१॥ "खिजइ मुहलावण्णं वाया घोलेइ कंठमज्झमि। कहकहकहेइ हिययं देहित्ति परं भणंतस्स ।। ॥२॥ गतिभ्रंशो मुखे दैन्यं, गात्रस्वेदो विवर्णता । मरणे यानि चिह्नानि, तानि चिह्नानि याचके ।। इत्यादि, एवंदुस्त्यजं याच्ञापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति ‘पृथगजनाः' प्राकृतपुरुषा अनार्यकल्पा 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा ये एते यतयः जल्लाविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ता:पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभि-कृष्यादिभिरातः-तत्कर्तुमसमर्था उद्विग्नाः सन्तोयतयः संवृत्ता इति, तथैते 'दुर्भगाः' सर्वेणैवपुत्रदारादिनापरित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति। मू. (१७१) एते सद्दे अचायंता, गामेसु नगरेसु वा। तत्थ मंदा विसीयंति, संगामंमिव भीरुया ।। वृ. 'एतान्' पूर्वोक्तानाक्रोशरूपान्तथा चौरचारिकादिरूपान् शब्दान सोढुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः 'तत्र' तस्मिन् आक्रोशे सति ‘मन्दा अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः “संग्रामे रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशः पटहमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्मनादल्पसत्त्वाः संयमे विषीदन्ति ।। मू. (१७२) अप्पेगे खुधियं भिक्खू, सुणी डंसति लूसए। तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥ वृ. वधपरीषहमधिकृत्याह-'अप्पेगे' इत्यादि,अपिसंभावने, एकःकश्चिच्छ्वादिलूषयतीति लूषकः प्रकृत्यैव क्रूरो भक्षकः, 'खुधिय'ति क्षुधितं-बुभुक्षितंभिक्षामटन्तं भिक्षु 'दशति' भक्षयति दशनैरङ्गावयवं विलुम्पति, 'तत्र' तस्मिन् श्वादिभक्षणेसति मन्दा' अज्ञाअल्पसत्त्वतया 'विषीदन्ति' दैन्यं भजन्ते, यथा 'तेजसा' अग्निना 'स्पृष्टा' दह्यमानाः 'प्राणिनो' जन्तवो वेदनार्ताः सन्तो विषीदन्ति-गात्रं संकोचयन्त्यार्तध्यानोपहता भवन्ति, एवं साधुरपि क्रूरसत्त्वैरभिद्रुतः संयमाद् भ्रश्यत इति, दुःसहत्वाद्रामकण्टकानाम् पुनरपि तानधिकृत्याहमू. (१७३) अप्पेगे पडिभासंति, पडिपंथियमागता। पडियारगता एते, जे एते एव जीविणो ॥ वृ.अपिःसंभावने, 'एके केचनापुष्टधर्माणः-अपुण्यकर्माणः प्रतिभाषन्ते'ब्रुवते, प्रतिपथःप्रतिकूलत्वं तेन चरन्ति प्रातिपन्थिकाः-साधुविद्वेषिणस्तदावमागताः कथञ्चिप्रतिपथे वा दृष्टा अनार्या एतद्ब्रुवते, सम्भाव्यत ऐतदेवंविधानां, तद्यथा-प्रतीकारः-पूर्वाचरितस्य कर्मणोऽनुभवस्तमेके गताः-प्राप्ताः स्वकृतकर्मफलभोगिनो ‘य एते' यतयः ‘एवंजीविन' इति परगृहाण्यटन्त अतोऽन्तप्रान्तभोजिनोऽदत्तदाना लुञ्चितशिरसः सर्वभोगवञ्चिता दुःखितं जीवन्तीति ॥ मू. (१७४) अप्पेगे वइ जुंजंति, नगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy