________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः - १
९१
‘शूराः’ शूरंमन्याः-सुभटाः, ततः सङ्गङ्ग्रामे समुपस्थिते पतत्परानीकसुभटमुक्तहेतिसङ्घाते सति तत्र च सर्वस्या- कुलीभूतत्वात् ।
माता पुत्रं न जानाति कटीतो भ्रश्यन्तं स्तनन्धयमपि न सम्यक् प्रतिजागर्त्तीत्येवं मातापुत्रीये सङ्गङ्ग्रामे परानीकसुभटेन जेत्रा चक्रकुन्तनाराचशक्त्यादिभि परि-समन्तात् विविधम्-अनेकप्रकारं क्षतो - हतश्छिन्नो वा यथा कश्चिदल्पसत्त्वो भङ्गमुपयाति दीनो भवतीतियावदिति दान्तिकमाहयू. (१६७) एवं सेहेवि अप्पुट्टे, भिक्खायरिया अकोविए । सूरं मन्नति अप्पाणं, जाव लूहं न सेवए ॥
वृ. 'एव’मिति प्रक्रान्तपरामर्शार्थः, यथाऽसौ शूरंमन्य उत्कृष्टिसिंहनादपूर्वकं सङ्ग्रामशिरस्युपस्थितः पश्चाज्जेतारं वासुदेवमन्यं वा युध्यमानं दृष्ट्वा दैन्यमुपयाति, एवं ‘शैक्षकः' अभिनवप्रव्रजितः परीषहैः 'अस्पृष्टः ' अच्छुप्तः किं प्रज्यायां दुष्करमित्येवं गर्जन् 'भिक्षाचर्यायां' भिक्षाटने 'अकोविदः’ अनिपुणः, उपलक्षणार्थत्वादन्यत्रापि साध्वाचारेऽभिनवप्रव्रजितत्वा-दप्रवीणः, स एवम्भूत आत्मानं तावच्छिशुपालवत् शूरं मन्यते यावज्जेतारमिव 'रूक्षं' संयमं कर्मसंश्लेषकारणा- भावात् 'न सेवते' न भजत इति, तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति ॥
सू. (१६८)
जया हेमंतमासंमि, सीतं फुसइ सव्वगं । तत्थ मंदा विसीयंति, रज्जहीणा व खत्तिया ॥
वृ. संयमस्य रूक्षत्वप्रतिपादनायाह- 'जया हेमंते' इत्यादि, 'यदा' कदाचित् 'हेमन्तमासे' पौषादौ ‘शीतं' सहिमकणवातं 'स्पृशति' लगति 'तत्र' तस्मिन्नसह्ये शीतस्पर्शे लगति सति एके ‘मन्दा' जडा गुरुकर्माणो ‘विषीदन्ति' दैन्यभावमुपयान्ति 'राज्यहीना' राज्यच्युताः यथा -क्षत्रिया राजान इवेति उष्णपरीषहमधिकृत्याह
पू. (१६९)
पुढे गिम्हाहितावेणं, विमणे सुपिवासिए । तत्थ मंदा विसीयंति, मच्छा अप्पोदए जहा ॥
वृ. 'ग्रीष्मे' ज्येष्ठाषाढाख्ये अभितापस्तेन 'स्पृष्टः' छुप्तो व्याप्तः सन् ‘विमनाः’ विमनस्कः, सुष्ठु पातुमिच्छा पिपासा तां प्राप्तोनितरां तृडभिभूतो बाहुल्येन दैन्यमुपयातीति दर्शयति- 'तत्र' तस्मिन्नुष्णपरीषहोदये 'मन्दा' जड़ा अशक्ता 'विषीदन्ति' यथा पराभङ्गमुपयान्ति, दृष्टान्तमाह-मत्स्या अल्पोदके विषीदन्ति, गमनाभावान्मरणमुपयान्ति, एवं सत्त्वाभावात्संयमात् भ्रश्यन्त इति, इदमुक्तं भवति-यथा मत्स्या अल्पत्वादुदकस्य ग्रीष्माभितापेन तप्ता अवसीदन्ति, एवमल्पसत्त्वाश्चारित्रप्रतिपत्तावपि जल्लमलक्लेदक्लिन्नगात्रा बहिरुष्णाभितप्ताः शीतलान् जलाश्रयान् जलधारागृहचन्दनादीनुष्णप्रतिकारहेतूननुस्मरन्ते व्याकुलितचेतसः संयमानुष्ठानं प्रति विषीदन्ति ।। मू. (१७०)
सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥
वृ. साम्प्रतं याच्जापरीषहमधिकृत्याह- 'सदा दत्ते' इत्यादि, यतीनां 'सदा' सर्वदा दन्तशोधनाद्यपि परेण दत्तम् एषणीयम्-उत्पादाद्येषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अपिचेयं 'याच्ञा' याच्ञापरीषहोऽल्पसत्त्वैर्दुखेन 'प्रणोद्यते' त्यज्यते, तथा चोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org