________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक:- ३
अरघट्टघटीयन्त्रन्यायेन तास्वेव योनिषु भयाकुलाः शठकर्मकारित्वात् शठा भ्रमन्ति जातिजरामरणैरभिद्रुता-गर्भाधानादिभिदुःखैः पीडिता इति । किञ्च
मू. (१६१) इणमेव खणं वियाणिया, नो सुलभं बोहिं च आहितं । एवं साहिएऽ हिपासए, आह जिणे इणमेव सेसगा ।।
वृ. इदमः प्रत्यक्षासन्नवाचित्वात् इमं द्रव्यक्षेत्रकालभावलक्षणं 'क्षणम्' अवसरं ज्ञात्वा तदुचितं विधेयं, तथाहि द्रव्यं जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणं क्षेत्रमप्याय'देशार्धषड्विंशति- जनपदलक्षणं कालोऽप्यवसर्पिणीचतुर्थारकादि धर्मप्रतिपचियोग्यलक्षणः भावश्च धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपच्युत्साहलक्षणः, तदेवंविधं क्षणम् अवसरं परिज्ञाय तथा 'बोधिं च' सम्यग्दर्शनावाप्तिलक्षणां नो सुलभामिति, एवमाख्यातमवगम्य तदवाप्तौ तदनुरूपमेव कुर्यादिति शेषः, अकृतधर्माणां च पुनर्दुर्लभा बोधि, तथाहि"लद्धेल्लियं च बोहिं अकरेंतो अनागयं च पत्थेंतो ।
119 11
अन्नं दानं बोहिं लब्भिसि कयरेण मोल्लेणं ? ॥
तदेवमुत्कृष्टतोऽपार्द्धपुद्गलपरावर्तप्रमाणकालेन पुनः सुदुर्लभा बोधिरित्येवं सहितो ज्ञानादिभिरधिपश्येत्-बोधिसुदुर्लभत्वं पर्यालोचयेत्, पाठान्तरं वा 'अहियासए' त्ति परीषहानुदीर्णान् सम्यगधिसहेत। एतच्चाऽऽह‘'जिनो' रागद्वेषजेता नाभेयोऽष्टापदे स्वान् सुतानुद्दिश्य, तथाऽन्येऽपि इदमेव शेषका जिना अभिहितवन्त इति ॥
यू. (१६२) अभविंसु पुरावि भिक्खुवो, आएसावि भवंति सुव्वता । या गुणाई आहुते कासवस्स अनुधम्मचारिणो ॥
वृ. एतदाह- हे भिक्षवः साधवः !, सर्वज्ञः स्वशिष्यानेवमामन्त्रयति, येऽभूवन् - अतिक्रान्ता 'जिनाः' सर्वज्ञाः ‘आएसावित्ति आगमिष्याश्च ये भविष्यन्ति, तानू विशिनष्टि- 'सुव्रताः' शोभनव्रताः, अनेनेदमुक्तं भवति तेषामपि जिनत्वं सुव्रतत्वादेवायातमिति, ते सर्वेऽप्येतान्- अनन्तरोदितान् गुणान् ‘आहुः’ अभिहितवन्तः, नात्र सर्वज्ञानां कश्चिन्मतभेद इत्युक्तं भवति, ते च 'काश्यपस्य' ऋषभस्वामिनो वर्द्धमानस्वामिनो वा सर्वेऽप्यनुचीर्णधर्मचारिण इति, अनेन च सम्यग्दर्शनज्ञानचारित्रात्मक एक एव मोक्षमार्ग इत्यावदितं भवतीति ॥
अभिहितांश्च गुणानुद्देशत आह
पू. (१६३)
तिविहेणवि पाण मा हणे, आयहिते अनियाण संवुडे ।
८७
-
एवं सिद्धा अनंतसो, संपइ जे अ अनागयावरे ॥
वृ. 'त्रिविधेन' मनसा वाचा कायेन यदिवा - कृतकारितानुमतिभिर्वा 'प्राणिनो' दशविधप्राणभाजो मा हन्यादिति, प्रथममिदं महाव्रतम्, अस्य चोपलक्षणार्थत्वात् एवं शेषाण्यपि द्रष्टव्यानि तथाऽऽत्मनेहित आत्महितः, तथा नास्य स्वर्गावाप्त्यादिलक्षणं निदानमस्तीत्यनिदानः, तथेन्द्रियनोइन्द्रियैर्मनोवाक्कायैर्वा संवृतस्त्रिगुप्तिगुप्त इत्यर्थः एवम्भूतश्चावश्यं सिद्धिमवाप्नोतीत्येतद्दर्शयति- 'एवम्' अनन्तरोक्तमार्गानुष्ठानेनानन्ताः 'सिद्धा' अशेषकर्मक्षयभाजः संवृत्ता विशिष्टस्थानभाजो वा, तथा 'सम्प्रति' वर्तमाने काले सिद्धिगमनयोग्ये सिध्यन्ति, अपरे वा अनागते काले एतन्मार्गानुष्ठायिन एव सेत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भावार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org