________________
८८
सूत्रकृताङ्ग सूत्रम् १/२/३/१६४ मू. (१६४) एवं से उदाहु अनुत्तरनाणी अनुत्तरदंसी अनुत्तरनाणदंसणधरे ।
अहा नायपुत्ते भगवं वेसालिए वियाहिए।।त्तिबेमि ।। वृ. एतच्च सुधर्मस्वामी जम्बूस्वामिप्रभृतिभ्यः स्वशिष्येभ्यः प्रतिपादयतीत्याह-‘एवं से' इत्यादि एवम्' उद्देशकत्रयाभिहितनीत् ‘स ऋषभस्वामीस्वपुत्रानुद्दिश्य उदाहृतवान् प्रतिपादितवान्, नास्योत्तरं-प्रधानमस्तीत्यनुत्तरं तच्च तज्ञानं च अनुत्तरज्ञानं तदस्यास्तीत्यनुत्तरज्ञानी तथाऽनुत्तर-दर्शी, सामान्यविशेषपरिच्छेदकावबोधस्वभावइति, बौद्धमतनिरासद्वारेण ज्ञानाधारं जीवंदर्शयितु-माह-'अनुत्तरज्ञानदर्शनधर' इति कथञ्चिद्भिन्नज्ञानदर्शनाऽऽधार इत्यर्थ, : ‘अर्हन्' सुरेन्द्रादिपूजाझैज्ञातपुत्रो वर्द्धमानस्वामीऋषभस्वामी वा भगवान् एश्वर्यादिगुणयुक्तो विशाल्यां नगर्या वर्द्धमानोऽस्माकमाख्यातवान्, ऋषभस्वामी वा विशालकुलोद्भवत्वाद्वैशालिकः, तथा चोक्तम्॥१॥ "विशाला जननी यस्य, विशालं कुलमेव वा।
विशालं प्रवचनं चास्य, तेन वैशालिको जिनः॥ एवमसौ जिनआख्यातेति।इतिशब्दःपरिसमाप्त्यर्थो, ब्रवीमीतिउक्तार्थो, नयाः पूर्ववदिति
अध्ययनं-२-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य द्वीतीय अध्ययन टीका परिसमाप्ता।
-अध्ययन-३ उपसर्ग परिज्ञाःवृ. उक्तं द्वितीयमध्यनम्, अधुना तृतीयामारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरं स्वसमयपरसमयप्ररूपणाऽमिहिता, तथा परसमयदोषान् स्वसमयगुणांश्च परिज्ञाय स्वसमये बोधो विधेय इत्येतच्चाभिहितं, तस्यच प्रतिबुद्धस्य सम्यगुत्थानेनोत्थितस्य सतः कदाचिदनुकूलप्रतिकूलोपसर्गा प्रादुर्भवेयुः, ते चोदीर्णा सम्यक् सोढव्या इत्येतदनेनाध्ययनेन प्रतिपाद्यते।।
ततोऽनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्र मान्तगतोऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः 'संबुद्धस्सुवसग्गा' इत्यादिना प्रथमाध्ययने प्रतिपादितः, उद्देशार्थाधिकारंतूत्तरत्र स्वयमेव नियुक्तिकारः प्रतिपादयिष्यतीति, नामनिष्पनं तु निक्षेपमधिकृत्य नियुक्तिकृदाहनि. [४५] उवसग्गंमि य छक्कं दव्वे चेयणमचेयणं दुविहं ।
आगंतुगो य पीलाकरो य जो सो उवस्सग्गो॥ नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् उपसर्गाषोढा, तत्र नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्योपसर्ग दर्शयति-'द्रव्ये' द्रव्यविषये उपसर्गो द्वेधा, यतस्तव्यमुपसर्गकर्तृचेतनाचेतनभेदात् द्विविधं, तत्र तिर्यङ्मनुष्यादयः स्वावयवाभिघातेन यदुपसर्गयन्ति स सचित्तद्रव्योपसर्ग, स एव काष्ठादिनेतरः । 'तत्त्वभेदपर्यायैयाख्येति, तत्रोपसर्ग उपतापः शरीरपीडोत्पादनमित्यादिपर्यायाः, भेदाश्चतिर्यङमनुष्योपसर्गादयः नामादयश्च, तत्त्वव्याख्यांतुनियुक्तिकृदेव गाथापश्चार्द्धन दर्शयतिअपरस्माद्दिव्यादेः आगच्छतीत्यागन्तुको योऽसावुपसर्गो भवति, स च देहस्य संयमस्य वा पीडाकारीति क्षेत्रोपसर्गानाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org