________________
८६
.
. सूत्रकृताङ्ग सूत्रम् १/२/३/१५७ किंविशिष्टः सन् ? अत आह-परम-उत्कृष्ट आयतो-दीर्घ सर्वकालभवनात् मोक्षस्तेनार्थिकःतदभिलाषीपूर्वोक्तविशेषणविशिष्टो भवेदिति॥ मू. (१५८) वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्नइ ।
एते मम तेसुवी अहं, नो ताणं सरणं न विजई। वृ. पुनरप्युपदेशान्तरमाह-वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोमहिष्यादयो 'ज्ञातयः' स्वजना मातापितुपुत्रकलत्रादयः तदेतद्वित्तादिकं 'बालः' अज्ञः शरणं मन्यते, तदेव दर्शयति-ममैते वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषुचार्जनपालनसंरक्षणादिनाशेषोपद्रवनिराकरणद्वारेणाहं भवामीत्येवं बालो मन्यते, न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच - ॥१॥ "रिद्धी सहावतरला रोगजराभंगरंहयसरीरं।
दोण्हंपि गमणसीलाण किच्चिरहोज्ज संबंधो?॥ ॥२॥ (तथा) मातापितृसहस्राणि, पुत्रदारशतानि च।
प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपिवा? | एतदेवाह-'नो' नैव वित्तादिकं संसारे कथमपि त्राणं भवति नरकादौ पततो, नापि रागादिनोपद्रुतस्य क्वचिच्छरणं विद्यत इति । एतदेवाहमू. (१५९) अब्भागमितंमि वा दुहे, अहवा उक्क.मिते भवंतिए।
एगस्स गती य आगती, विदुमंता सरणं न मन्नई॥ वृ. पूर्वोपात्तासातवेदनीयोदयेनाभ्यागतेदुःखे सत्येकाक्येव दुःखमनुभवति, नज्ञातिवर्गेण वित्तेन वा किञ्चिक्रियते, तथाच. ॥१॥ “सयणस्सवि मज्झगओ रोगाभिहतो किलिस्सइ इहेगो। .
__ सयणोविय से रोगं, न विरंचइनेव नासेइ॥ अथवा उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवानतरे भवान्तिके वा-मरणे समुपस्थिते सति एकस्यैवासुमतो गतिरागतिश्च भवति, विद्वान् विवेकी यथावस्थितसंसारस्वभावस्य वेत्ता ईषदपि तावत् शरणं न मन्यते, कुतः? सर्वात्मना त्राणमिति, तथाहि॥१॥ “एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते।
तस्मादाकालिकहितमेकेनैवात्मनः कार्यम्॥ ॥२॥ एक्को करेइ कम्मं फलमवितस्सिक्कओ समणुहवइ।
___एको जायइ मरइय परलोयं एक्कओ जाइ॥ मू. (१६०) सव्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो ।
हिंडंति भयाउला सढा जाइजरामरणेहिऽभिदुता। वृ.अन्यच्च-सर्वेऽपिसंसारोदरविवरवर्तिनःप्राणिनः संसारेपर्यटन्तः स्वकृतेन ज्ञानावरणीयादिना कर्मणा कल्पिताः-सूक्ष्मबादरपर्याप्तकापर्याप्तकैकेन्द्रियादिभेदेन व्यवस्थिताः, तथा तेनैव कर्मणैकेन्द्रियाद्यवस्थायाम् 'अव्यक्तेन' अपरिस्फुटेन शिरःशूलाद्यलक्षितस्वभा-वेनोपलक्षणार्थत्वात् प्रव्यक्तेन च 'दुःखेन' असातावेदनीयस्वभावेन समन्विताः प्राणिनः पर्यटन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org